511
सांतर्दीपालाबुना तत्र दुष्टं रक्तं संशोध्यं भवेन्निर्विषार्थम् ।
छर्दिं कृत्वा तद्वितीयेऽगदं वा तत्सिद्धं वा पाययेत्सद्यवागूम् ॥ १११ ॥
शेषान् वेगानाशु दर्वीकराणां वेगेषूक्तैरौषधैस्साधयेत्तान् ।
ऊर्ध्वाधस्संशोधनैस्तीव्रनस्यैःसाक्षात्तीक्ष्णैरंजनाद्यैरशेषैः ॥ ११२ ॥

भावार्थः--The Hindi commentary was not digitized.

दिग्धविद्धलक्षण.

कृष्णास्रावं कृष्णवर्णं क्षतं या दाहोपेतं पूतिमांसं विशीर्णं ।
जानीयात्तद्दिग्धविद्धं शराद्यैः क्रूरैर्दत्तं यद्विषं सव्रणेस्मिन् ? ॥ ११३ ॥

भावार्थः--The Hindi commentary was not digitized.

विषयुक्तव्रणलक्षण.

कृष्णोपेतं मूर्च्छया चाभिभूतं मर्त्यं संतापज्वरोत्पीडितांगम् ।
तं दृष्ट्वा विद्याद्विषं तत्र दत्तं कृष्णं मांसं शीर्यते यद्ब्रणेऽस्मिन् ॥ ११४ ॥

भावार्थः--The Hindi commentary was not digitized.