513

सर्वविषारि अगद.

पाठाहिंगुफलत्रयं त्रिकटुकं वक्राजमोदाग्निकं ।
सिंधूत्थं सविडं विडंगसहितं सौवर्चलं चूर्णितम् ॥
सर्वं गव्यघृतेन मिश्रितमिदं श्रृंगे निधाय स्थितं ।
सर्चाण्येव विषाणि नाशयति तत् सर्वात्मना योजितम् ॥ ११८ ॥

भावार्थः--The Hindi commentary was not digitized.

द्वितीय सर्वविषारि अगद.

स्थौणेयं सुरदारुचंदनयुगं शिग्रुद्वयं गुग्गुलुं ।
तालीसं सकुटं नरं कुटजमुग्रार्काग्निसौवर्चल ॥
कुष्ठं सत्क्रटुरोहिणीत्रिकटुकं संचूर्ण्य संस्थापितम् ।
गोश्रृंगे समपंचगव्यसहितं सर्वं विषं साधयेत् ॥ ११९ ॥

भावार्थः--The Hindi commentary was not digitized.

तृतीयसर्वबिषारि अगद.

तालीसं बहुलं विडंगसहितं कुष्ठं विडं सैधवं ।
भार्ङ्गी हिंगुमृगादनीसकिणिहिं पाठां पटोलां वचां ॥
पुष्पाण्यर्ककरंजवज्रसुरसा भल्लातकांकोलजा--।
न्याचूर्ण्याजपयोघृतांबुसहितान्येतद्गरं निराहेत् ॥ १२० ॥

भावार्थः--The Hindi commentary was not digitized.