मंडलिविषनाशक अगद.

प्रोक्ता वातकफोत्थिताखिलविषप्रध्वंसिनः सर्वथा ।
योगाः पित्तसमुद्भवेष्वपि विषेष्वत्यंतशीतान्विताः ॥
वक्ष्यंतेऽपि सुगंधिकायवफलद्राक्षालवंगत्वचः ।
श्यामासोमरसादवाकुरवका बिल्वाम्लिका दाडिमाः ॥ १२३ ॥
श्वेताश्मंतकतालपत्रमधुकं सत्कुंडलीचंदनं ।
कुंदेंदीवरसिंधुवारककपित्थेंद्राह्वपुर्ष्पीयुतां ॥
76 515
सर्वक्षीरघृतप्लुताः समसिताः सर्वात्मना योजिताः ।
क्षिप्रं ते शमयंति मण्डलविषं कर्मेव धर्मा दश ॥ १२४ ॥

भावार्थः--The Hindi commentary was not digitized.

  1. क. पुस्तके प ठोऽयं नोपलभ्यते ।