मूषिकविषघ्नघृत.

प्रत्येकं प्रस्थभागैःदधिघृतपयसां क्वाथभागैश्चतुर्भिः ।
वज्रार्कालर्कगोजीनृपतरुकुटजव्याघ्रिकानक्तमालैः ॥
कल्कैः कापित्थनीलीत्रिकटुकरजनीरोहिणीनां समांशैः ।
पक्वं सर्पिर्विषघ्नं शमयति सहसा मूषकाणां विषं च ॥ १३७ ॥

भावार्थः--The Hindi commentary was not digitized.