489

त्रिविधपदार्थ व पोषकलक्षण.

त्रिविधमिहोदितं जगति वस्तुसमस्तमिदं ।
निजगुणयुक्तपोषकविघातक नोभयतः ॥
दधिघृतदुग्धतक्रयवशालिमसूरगुडा--।
द्यखिलमपापहेतुरिति पोषकमात्महितम् ॥ २४ ॥

भावार्थः--The Hindi commentary was not digitized.

विघात व अनुभयलक्षण.

विषमधुमद्यमांसनिकराद्यतिपापकरं ।
भवभवघातको भवति तच्च विघातकरं ॥
तृणबहुवृक्षगुल्मचयवीरुध एव नृणा--।
मनुभयकारिणो भुवि भवेयुरभक्षगणाः ॥ २५ ॥

भावार्थः--The Hindi commentary was not digitized.

मद्यपान से अनर्थ.

नयविनयाद्युपेतचरितोऽपि विनष्टमना ।
विचराति सर्वमालपति कार्यमकार्यमपि ॥
स्वसृदुहितृषु मातृषु च कामवशाद्रमते ।
शुचिमशुचिं सदा हरति मद्यमदान्मनुजः ॥ २६ ॥
अथ इह मद्यपानमतिपापविकारकरं ।
परुषतरामयैकनिलयं नरलाघवकृत् ॥
परिहृतमुत्तमैरखिलधर्मधनैः पुरुषै--।
रुभयभवार्थघातकमनर्थनिमित्तमिति ॥ २७ ॥