528
आतपशीततोयबहुवातनिषेवणतद्दिवातिनि--।
द्राद्यखिलान्यसात्म्यवहुदोषकराण्यपहृत्यमा ॥
समेकं निजदोषसंशमनभेषजसिद्धजलाद्यशेषमा ।
हारमुदाहराम्यनुपमागमचोदितमग्निवृद्धये ॥ ९ ॥

भावार्थः--The Hindi commentary was not digitized.

अग्निवृद्धिकारक उपाय.

अष्टमहाक्रियाभिरुदराग्निरिहाल्पतरो भवे--।
न्नृणामनलवर्धनकरैरमृतादिभिरावहेन्नरः ॥
यत्नपरोऽग्निमणुभिस्तृणकाष्ठचयैःक्रमक्रमा ।
दत्र यथा विरूक्षगणैः परिवृद्धितरं करिष्यति ॥ १० ॥

भावार्थः--The Hindi commentary was not digitized.

अग्निवर्द्धनार्थ जलादि सेवा.

उष्णजलं तथैव श्रृतशीतलमप्यनुरूपतो ।
यवागूं सविलेप्यदूषवरधूप्यखलानकृतान्कृतानपि ॥
स्वल्पघृतं घृताधिकसुभोजनमित्यथाखिलं ।
नियोजयेत्त्रिद्वियुतैकभेदगणनादिवसेष्वनलत्रिकक्रमात् ॥ ११ ॥