द्रव, शुष्कं, एककाल, द्विकाल भोजन.

तीव्रतृषातिशोषणविशुष्कतनूनपि दुर्बलान्द्रवै--।
र्मेहिमहोदराक्षिनिजकुक्षिविकारयुतक्षताकुलो--॥
द्गारिनरान्नयेदिह विशुष्कतरैरनलाभिवृद्धये ।
मंदसमाग्निकाल्लघुभिरेकवरद्विकभोजनैः क्रमात् ॥ १४ ॥

भावार्थः--The Hindi commentary was not digitized.

औषधरोषिणामशनमौषधसाधितमेव दापये--।
दग्निविहीनरोगिषु च हीनतरं षडृतुप्रचोदितं ॥
दोषशमनार्थमुक्तमतिपुष्टिकरं बलवृष्यकारणं ।
स्वस्थजनोचितं भवति वृत्तिकरं प्रतिपादितं जिनैः ॥ १५ ॥

भावार्थः--The Hindi commentary was not digitized.