534

स्नेहपाकविधि.

द्रव्याच्चतुर्गुणांभसि विपक्वकषायविशेष--।
पादशेषिततदर्धदुग्धसहिते च तदर्धघृते घृतस्य ॥
पादौषधकल्कयुक्तमखिलं परिपाच्य घृतावशेषितं ।
तद्वरपूज्यपादकथितं तिलजादिविपाकलक्षणम् ॥ २४ ॥

भावार्थः--The Hindi commentary was not digitized.

स्नेहपाकका त्रिविधभेद.

प्रोक्तघृतादिषु प्रविहिताखिलपाकविधिर्विशेषिते--।
ष्वेषु समस्तसूरिमतभेदविकल्पकृतः प्रशस्यते ॥
पाकमिह त्रिधा प्रकटयंति मृदुं वरचिक्कणं खरा--।
द्यु+उबलचिक्कणं च निजनामगुणैरपि शास्त्रवेदिनः ॥ २५ ॥

भावार्थः--The Hindi commentary was not digitized.

मृदुचिक्कणखरचिक्कणपाकलक्षण.

स्नेहवरौषधाधिकविवेकगुणं मृदुपाकमादिशेत् ।
स्नेहविविक्तकल्कबहुपिच्छिलतो भवतीह चिक्कणं ॥
कल्कमिहांगुलिद्वय विमर्दनतः सहसैव वर्तुली--।
भूतमवेक्ष्य तं खरसुचिक्कणमाहुरतोतिदग्धता ॥ २६ ॥