579

शल्याहरणविधि.

आहार्येषु विचार्य यंत्रितनरस्याहारयेच्छल्यमा--।
लोक्यं कंकमुखादिभिस्त्वविदितं शल्यं समाज्ञापय ॥
हस्त्यश्वोष्ट्ररथादिवाहनगणानारोप्य संवाहये--।
च्छीघ्रं यत्र रुजा भवेदतितरां तत्रैव शल्यं हरेत् ॥ ५४ ॥

भावार्थः--The Hindi commentary was not digitized.

सीवन, संधान, उत्पीडन, रोपण.

सूची वा सुविचार्य सीवनविधौ ऋज्वीं सवक्रां तया ।
सीवेदूरुशिरः प्रतीतजठरे संभूय भूरिव्रणे ।
संधानौषधसाधितैर्घृतवरैस्संलिप्य सन्धाय सं--।
पीड्योत्पीडनभेषजैरपि बहिः संरोपणैः रोपयेत् ॥ ५५ ॥

भावार्थः--The Hindi commentary was not digitized.

शस्त्रकर्मविधि.

छेद्यादिष्वपि चाष्टकर्मसु यदा यत्कर्मकर्तुर्भिषक् ।
वांछन् भेषजयंत्रशस्त्रगृहशीतोष्णोदकाग्न्यदिकान् ॥
स्निग्धान्सत्परिचारकानपि तदा संयोज्य संपूर्णतां ।
ज्ञात्वा योग्यमपीह भोजनमपि प्राग्भोजयेदातुरम् ॥ ५६ ॥

भावार्थः--The Hindi commentary was not digitized.