560

शास्त्र की परंपरा.

स्थानं रामगिरिर्गिरींद्रसदृशः सर्वार्थसिद्धिप्रदं ।
श्रीनंदिप्रभवोऽखिलागमविधिः शिक्षाप्रदः सर्वदा ॥
प्राणावायनिरूपितार्थमखिलं सर्वज्ञसंभाषितं ।
सामग्रीगुणता हि सिद्धिमधुना शास्त्रं स्वयं नान्यथा ॥ ३ ॥

भावार्थः--The Hindi commentary was not digitized.

शास्त्रेऽस्मिन्पदशास्त्रवस्तुविषया ये ते गृहीतं तत--।
स्तेषां तेषु विशेषतोऽर्थकथनं श्रोतव्यमेवान्यथा ॥
शास्त्रस्यातिमहत्वमर्थवशतः श्रोतुर्मनोमोहनं ॥
व्याख्यातुं च भवेदशेषवचनस्यादर्थतः संकरः ॥ ४ ॥

भावार्थः--The Hindi commentary was not digitized.

तस्माद्वैद्यमुदाहरामि नियतं बह्वर्थमर्थावहं ।
वैद्यं नाम चिकित्सितं न तु पुनः विद्योद्भवार्थांतरम् ॥
व्याख्यानादवगम्यतेऽर्थकथनं संदेहवद्वस्तु तत् ।
सामान्येषु विशेषितस्स्थितमतः पद्मं यथा पंकजम् ॥ ५ ॥