वातादिसे दुष्ट व शुद्धशोणितका लक्षण.

वातेनात्यसितं सफेनमरुणं स्वच्छं सुशीघ्रागमं ।
दुष्टं स्याद्रुधिरं स्वपित्तकुपितं नीलातिपीतासितम् ।
विस्रं नेष्टमशेषकीटमशकैस्तन्मक्षिकाभिस्सदा ।
श्लेष्मोद्रेककलंकितं तु बहलं चात्यंतमापिच्छिलम् ॥ ६२ ॥
मांसाभासमपि क्षणादतिचिरादागच्छति श्लेष्मणा ।
शीतं गैरिकसप्रभं च सहजं स्यादिंद्रगोपोपमम् ॥
तच्चात्यंतमसंहतं ह्यविरलं वैवर्णहीनं सदा ।
दृष्ट्वा जीवमयं च शोणितमलं संरक्षयेदक्षयम् ॥ ६३ ॥

भावार्थः--The Hindi commentary was not digitized.