564
सीवन्यामुदरेषु संधिषु गले नाभौ तथा मेहने ।
हृच्छूले च विवर्जयेन्निशितसक्षारं महाक्षारवित् ॥
क्षारोऽयं विषशस्त्रसर्पदहनज्वालाशनिप्रख्यया ।
स्यादज्ञानिनियोजितः सुभिषजा हन्यान्नियुक्तो गदान् ॥ १४ ॥

भावार्थः--The Hindi commentary was not digitized.

क्षारका श्रेष्ठत्व, प्रतिसारणीय व पानीयक्षारप्रयोग.

क्षारः छेद्यविभेद्यलेख्यकरणाद्दोषत्रयध्नौषध--।
व्यापारादधिकं प्रयोगवशतः शस्त्रानुशस्त्रेष्वपि ॥
तत्र स्यात्प्रतिसारणीय विहितः कुष्ठेऽखिलानर्बुदे--।
नाड्यां न्यच्छभगंदरक्रिमिविषे बाह्ये तु योज्यात्सदा ॥ १५ ॥
सप्तस्वप्यधिजिह्विकोपयुतजिह्वायां च दंतोभ्दवे ।
वैदर्भे बहुमेदसाप्युपहते ओष्ठप्रकोपं तथा ॥
योज्यस्स्यादिह रोहिणीषु तिसृषु क्षारो गरेषूर्जितः ।
पानीयोप्युदरेषु गुल्मनिचये स्यादग्निसंङ्गेष्वपि ॥ १६ ॥
अश्मर्यामपि शर्करासु विविधग्रंथिष्वथार्शस्वपि ।
स्वांतस्तीव्रविषक्रिमिष्वपि तथा श्वासेषु कासेष्वपि ॥
प्रोद्यद्भासिषु चाप्यजीर्णिषु मतः क्षारोयमस्मादपि ।
क्षारादग्निरतीव तीक्ष्णगुणबत्तद्दग्धनिर्मूलनात् ॥ १७ ॥