566

अग्निकर्मवर्ज्यकाल व उनका भेद.

ग्रीष्मे सच्छरदि त्यजेद्दहनसत्कर्मात्र तत्प्रत्यनी--।
कं कृत्वात्ययिकामयेति विधिवच्छीतद्रवाहारिणः ॥
सर्वेष्वप्यृतुषु प्रयोगवशतः कुर्वीत दाहक्रियां ।
तद्दग्धं द्विविधं भिषग्विनिहितं त्वङ्मांसदग्धक्रमात् ॥ १९ ॥

भावार्थः--The Hindi commentary was not digitized.

त्वग्दग्ध, मांसदग्धलक्षण.

त्वग्दग्धेषु विवर्णतातिविविधस्फोटोद्भवश्चर्मसं--।
कोचश्चातिविदाहता प्रचुरदुर्गंधातितीव्रोष्मता ॥
मांसेप्यल्परुगल्पशोफसहितश्यामत्वसंकोचता ।
शुष्कत्वव्रणता भवेदिति मतं संक्षेपंसल्लक्षणैः ॥ २० ॥

भावार्थः--The Hindi commentary was not digitized.

दहनयोग्यस्थान, दहनसाध्यरोग व दहनपश्चात् कर्म.

भ्रूशंखेषु दहेच्छिरोरुजि तथाधीमंथके वर्त्मरो--।
गेष्वप्यार्द्रदुकूलसंवृतमथाह्यारोमकूपाद्भृशम् ॥
वाथावुग्रतरे व्रणेषु कठिनप्रोद्भूतमांसेषु च ।
ग्रंथावर्बुदचर्मकीलतिलकालाख्यापचेष्वप्यलं ॥ २१ ॥