567
नाड्यच्छिन्नसिरासु संधिषु तथा छिन्नेषु रक्तप्रवृ--।
त्तौ सत्यां दहनक्रिया प्रकटिता नष्टाष्टकर्मारिभिः ।
सम्यग्दग्धमवेक्ष्य साधुनिपुणः कुर्याद्घृताभ्यंजनं ।
शीताहारविहारभेषजविधिं विद्वान् विदध्यात्सदा ॥ २२ ॥

भावार्थः--The Hindi commentary was not digitized.

अग्निकर्म के अयोग्य मनुष्य.

वर्ज्या वन्हिविधानतः प्रकृतिपित्तश्चातिभिन्नोदरः ।
क्षीणोंतःपरिपूर्णशोणितयुतः श्रांतस्सशल्यश्च यः ॥
स्वेद्याश्च नरा बहुव्रणगणैः संपीडिताश्चान्यथा ।
दग्धस्यापि चिकित्सतं प्रतिपदं वक्ष्यामि सल्लक्षणैः ॥ २३ ॥

भावार्थः--The Hindi commentary was not digitized.

अन्यथा दग्धका चतुर्भेद.

स्पृष्टं चैव समं च दग्धमथवा दुर्दग्धमत्यंतद--।
ग्धं चेत्तत्र चतुर्विधं ह्यभिहितं तेषां यथानुक्रमात् ॥
वक्ष्ये लक्षणमप्यनूनवरभैषज्वक्रियां चातुर ।
स्याहारादिविधानमप्यनुमतं मान्यैर्जिनेंद्रैस्सदा ॥ २४ ॥
80
  1. अव्यध्या इति पाठांतरं ।