स्पृष्ट, सम्यग्दग्ध, दुर्दग्ध, अतिदग्धका लक्षण.

यच्चात्यंतविवर्णमूष्मबहुलं तच्चाग्निसंस्पृष्टमि--।
त्यन्यद्यत्तिलवर्णमुष्णमधिकं नैवातिगाढं स्थितं ॥
तत्सम्यक्समदग्धमप्यभिहितं स्फोटोभ्दवस्तीव्रसं--।
तापाद्दुःखतरं चिरप्रशमनं दुर्दग्धतालक्षणम् ॥ २५ ॥
मूर्च्छा वातितृषा च संधिविगुरुत्वं चांगसंशोषणं ।
मांसानामवलंबनं निजसिरास्नाय्वस्थिसंपीडनं ॥
कालात्सक्रिमिरेव रोहति चिरारूढोऽतिदुर्वर्णता ।
स्यादत्यंतविदग्वलक्षणमिदं वक्ष्ये चिकित्सामपि ॥ २६ ॥

भावार्थः--The Hindi commentary was not digitized.