570
दुष्टादुष्टमपोह्यमेवमखिलं क्षीरेण वा क्षालयेत् ।
पत्रैर्वा वृणुयाद्व्रणं वनरुहैः कुर्यादव्रणोक्तक्रियाम् ॥ ३० ॥

भावार्थः--The Hindi commentary was not digitized.

रोपणक्रिया.

तद्दग्धव्रणरोपणेऽपि सुकृते चूर्णप्रयोगार्हके ।
काले क्षाममपेयुषैरमलिंनैः शाल्यक्षतैर्लाक्षया ॥
क्षीरक्षारसतिंदुकाम्रबकुलप्रोत्तुंगजंबूकदं--।
बत्वग्भिश्च सुचूर्णिताभिरसकृत् संचूर्णयेन्निर्णयम् ॥ ३१ ॥

भावार्थः--The Hindi commentary was not digitized.

सवर्णकरणविधान.

श्वित्रेषूक्तविचित्रवर्णकरणानेकौषधालेपनं ।
कुर्यात्स्निग्धमनोज्ञशीतलतरस्वाहारमाहारयेत् ॥
प्रोक्तं चाग्निविधानमेतदखिलं वक्ष्यामि शस्त्रक्रियां ।
शस्त्राणामनुशस्त्रशस्त्रविधिना शस्त्रं द्विधा चोदितम् ॥ ३२ ॥

भावार्थः--The Hindi commentary was not digitized.

अनुशस्त्रवर्णन.

तत्रादावनुशस्त्रभेदमखिलं वक्ष्यामि संक्षेपतः ।
क्षाराग्निस्फटिकोरसारनखकाचत्वग्जलूकादिभिः ॥