600
तस्मात्स्निग्धतरं विरूक्ष्य नितरां सुस्नेहतः शोधये--।
दुध्दूतस्वनिबंधनाच्छिथिलिताः सर्वेऽपि सौख्यावहाः ॥ ५१ ॥

भावार्थः--The Hindi commentary was not digitized.

संशोधनसम्बन्धी ज्ञातव्य बातें.

एवं कोष्ठविशेषविद्विदितसत्कोष्ठस्य संशोधनं ।
दद्याद्दोषंहरं तथाह्यविदितस्यालोक्य सौम्यं मृदु ॥
यद्यद्दृष्टगुणं यदेव सुखकृद्यच्चाल्पमात्रं महा--।
वीर्यं यच्च मनोहरं यदपि निर्व्यापच्च तद्भेषजम् ॥ ५२ ॥

भावार्थः--The Hindi commentary was not digitized.

संशोधन में पंद्रहप्रकार की व्यापत्ति.

प्रोक्ते सद्वमने विरेचनविधौ पंचादशः व्यापदः ।
स्युस्तासामिह लक्षणं प्रतिविधानं च प्रवक्ष्यामहे ॥
ऊर्ध्वाधोगमनं विरेकवमनव्यापच्च शेषौषधै--।
स्तज्जीर्णौषधतोऽल्पदोषहरणं वातातिशूलोद्भवः ॥ ५३ ॥
जीवादानमंयोगमित्यतितरां योगः परिस्राव इ--।
त्यन्या या परिवर्तिका हृदयसंचारो विबंधस्तथा ॥