620

हृदयोपसरण चिकित्सा.

त्रिदोषभैषज्यगणैर्विशोधनैर्निरूहयेच्चाप्यनुवासयेत्ततः ।

अगंग्रह+अतियोगलक्षण व चिकित्सा.

अथानिलात्मा प्रकृतेर्विरूक्षितः सुदुःखशय्याधिगतस्य वा पुनः ॥ ११८ ॥
कृताल्पवीर्यौषधबस्तिरुद्धतः करोति चांगग्रहणं सुदुर्ग्रहम् ।
तथांगसादांगविजृंभवेपथु--प्रतीतवाताधिकवेदनाश्रयान् ॥ ११९ ॥
अतोऽत्र वातामयसच्चिकित्सितं विधेयमत्युद्धतवातभेषजैः ।
अथाल्पदोषस्य मृदूदरस्य वा तथैव सुस्विन्नतनोश्च देहिनः ॥ १२० ॥
सुतीक्ष्णबस्तिस्सहसा नियोजितः करोति साक्षादतियोगमद्भुतम् ।
तमत्र यष्टीमधुकैः पयोघृतैः विधाय बस्तिं शमयेद्यथासुखम् ॥ १२१ ॥

भावार्थः--The Hindi commentary was not digitized.