628
संपाद्य स्नेहगंधं मुखमखिलतनोश्चेंद्रियाणां प्रलेपं ।
कुर्यादार्योऽतिपीडाक्रममिह विधिनास्थापयेत्तं विदित्वा ॥ १४३ ॥

भावार्थः--The Hindi commentary was not digitized.

असंस्कृतशरीरीको प्रयुक्तस्नेहका उपद्रव.

निर्वीर्यो वाल्पमात्रेऽप्यतिमृदुरिह संयोजितः स्नेहबस्ति--।
र्न प्रत्यागच्छतीह प्रकटविदितसंस्कारहीनात्मदेहं ॥
स्नेहः स्थित्वोदरे गौरवमुखविरसाध्मानशूलावहःस्यात् ।
तत्राप्यास्थापनं तद्धिततनुमनुवासस्य वासावसाने ॥ १४४ ॥

भावार्थः--The Hindi commentary was not digitized.

अल्पाहारीको प्रयुक्तस्नेहका उपद्रव.

स्वल्पाहारेऽल्पमात्रः सुविहितहितवत् स्नेहबस्तिर्न चैवं ।
तत्कालादागमिष्यत्क्लमविरसशिरोगौरवात्यंगसादान् ॥
कृत्वा दुःखप्रदः स्यादिति भिषगधिकास्थापनं तत्र कुर्या--।
दार्यो वीर्योरुवीर्यौषधवृतमखिलाकार्यकार्यैकवेदी ॥ १४५ ॥

भावार्थः--The Hindi commentary was not digitized.