629

स्नेहका शीघ्र आना और न आना.

अत्युष्णो वातितीक्ष्णस्सजलमरुदुपेतः प्रयुक्तोऽतिमात्रो ।
स्नेहस्सद्योऽतिवेगं स्रवति फलमतो नास्ति चेति प्रकुर्यात् ॥
सम्यग्भूयोऽनुवासं तदनुगतमहोरात्रतस्सन्निवृत्तो ।
बस्तिर्विस्तारकं वा अशनमिव भवेज्जीर्णवानल्पवीर्यः ॥ १४६ ॥

भावार्थः--The Hindi commentary was not digitized.

स्नेहबस्ति का उपसंहार.

इत्यनेकविधदोषगणाढ्यस्सच्चिकित्सितयुतः कथितोऽयम् ।
स्नेहबस्तिरत ऊर्ध्वमुदारो वक्ष्यते निगदितांऽपि निरूहः ॥ १४७ ॥

भावार्थः--The Hindi commentary was not digitized.

निरूहबस्तिप्रयोगविधि.

स्नेहबस्तिमथवापि निरूहं कर्तुमुद्यतमनाः सहसैवा--।
भ्यक्ततप्ततनुमातुरमुत्सृष्टात्ममूत्रमलमाशु विधाय ॥ १४८ ॥
प्रोक्तलक्षणनिवातगृहे मध्येऽच्छभूमिशयने त्वथ मध्या--।
न्हे यथोक्तविधिनात्र निरूहं योजयेदधिकृतक्रमवेदी ॥ १४९ ॥

भावार्थः--The Hindi commentary was not digitized.