632

बृंहण बस्ति

अश्वगंधवरवज्रलतामापाद्य शेषमधुरौषधयुक्ताः ।
बस्तयः प्रकटबृंहणसंज्ञाः माहिषोरुदधिदुग्धघृताढ्याः ॥ १५७ ॥

भावार्थः--The Hindi commentary was not digitized.

शमनबस्ति.

क्षीरवृक्षमधुरौषधशीतद्रव्यतोयवरकल्कसमेताः ।
बस्तयः प्रशमनैकविशेषाः शर्करेक्षुरसदुग्धघृताक्ताः ॥ १५८ ॥

भावार्थः--The Hindi commentary was not digitized.

वाजीकरण बस्ति.

उच्चटेक्षुरकगोक्षुरयष्टीमाषगुप्तफलकल्ककषायैः ।
संयुता घृतसिताधिकदुग्धैर्बस्तयः प्रवरवृष्यकरास्ते ॥ १५९ ॥

भावार्थः--The Hindi commentary was not digitized.

पिच्छिल बस्ति.

शेलुशाल्मलिविदारिबदर्यैरावतीप्रभृतिपिच्छिलवर्गैः ।
पक्वतोयघृतदुग्धसुकर्ल्कैबस्तयो विहितपिच्छिलसंज्ञाः ॥ १६० ॥

भावार्थः--The Hindi commentary was not digitized.

संग्रहण बस्ति.

सत्प्रियगुघनवारिसमंगापिष्टकाकृतकषायसुकल्कैः ।
छागदुग्धयुतबस्तिगणास्सांग्राहिकास्सततमेव निरुक्ताः ॥ १६१ ॥