653

प्रतिमर्शनस्य.

सुस्नेहनार्थमुपदिष्टमिदं हि नस्यं प्रोक्तं तथा प्रततसत्प्रतिमर्शनं च ।
तत्र प्रतीतनवकालविशेषणेषु कार्यं यथाविहिततत्प्रतिमर्शनं तु ॥ ६३ ॥

भावार्थः--The Hindi commentary was not digitized.

प्रतिमर्शनस्य के नौ काल व उस के फल.

प्रातस्समुत्थितनरेण कृतेऽवमर्शे सम्यग्व्यपोहति निशोपचितं मलं यत् ।
नासागताननगतं प्रबलां च निद्रामावासनिर्गमनकालनिषेवितं तु ॥ ६४ ॥
वातातपप्रबलधूमरजोऽतिबाधां नासागतं हरति शीतमिहांबुपानात्?
प्रक्षालितात्मदशनेन नियोजितोऽयं दंतेषु दाद्र्यमधिकास्यसुगंधिता च ॥ ६५ ॥
कुर्याद्रुजामपहरत्यधिकां दिवातिसुप्तोत्थितेन च कृतं प्रतिमर्शनं तु ।
निद्रावशेषमथ तच्छिरसो गुरुत्वं संहृत्य दोषमपि तं सुखिनं करोति ॥ ६६ ॥

भावार्थः--The Hindi commentary was not digitized.