654
पंथश्रमाकुलनरेण नियोजितस्तु पंथश्रमं व्यपथ इत्यखिलांगदुःखम् ।
नित्यं सुमूत्रितवताप्यभिषेचितोऽयं सद्यः प्रसादयति नीरदमंगसंस्थम् ॥ ६७ ॥

भावार्थः--The Hindi commentary was not digitized.

वांते नरेऽपि गललग्नबलासमाशु निश्शेषतो व्यपहरत्यभिषेचितस्तु ।
भक्ताभिकांक्षणमपि प्रकरोति साक्षाच्छ्रोतोविशुद्धिमिह भुक्तवतावमर्शः ॥ ६८ ॥

भावार्थः--The Hindi commentary was not digitized.

प्रतिमर्श का प्रमाण.

सायं निषोवितमिदं सततं नराणां निद्रासुखं निशि करोति सुखप्रबोधम् ।
प्रोक्तं प्रमाणमपि तत्प्रतिमर्शनस्य नासागतस्य च घृतस्य मुखे प्रवेशः ॥ ६९ ॥

भावार्थः--The Hindi commentary was not digitized.

प्रतिमर्श नस्य का गुण.

अस्माद्भवेदिति च सत्प्रतिमर्शनात्तु वक्त्रं सुगंधि निजदंतसुकेशदार्द्यं ।
रोगा स्वकर्णनयनानननासिकोत्था नश्युस्तथोर्ध्वगलजत्रुगताश्च सर्वे ॥ ७० ॥

भावार्थः--The Hindi commentary was not digitized.

शिरोविरेचन विरेचन नस्य का वर्णन.

एवं मया निगदितं प्रतिमर्शनं तं वक्ष्याम्यतः परमरं शिरसो विरेकम् ।
नासागतं वदति नस्यमिति प्रसिद्धम् रूक्षौषधैरपि तथैव शिरोविरेकम् ॥ ७१ ॥