महा अक्ष तैल

काश्मर्या बीजपूरप्रकटतरकपित्थाम्रजंबूद्रुमाणां ।
शैलेयस्यापि पुष्पाण्यमृतहटमहानीलिकामोदयंती ॥
नीलीपत्राणि नीलांजनतुवरककासीसपिण्डीतबीजम् ।
वर्षाभूसारिवा याऽसिततिलयुतयष्ट्याव्हका काणकाली ॥ १०२ ॥
पद्मं नीलोत्पलाख्यं मुकुलकुवलयं तत्र संभूतपङ्कं ।
वर्षाशं कल्कितान्तानसनखदिरसारोदकैस्त्रैफलैश्च ॥
एतत्संर्व दशाहं निहितमिहमहालोहकुंभे ततस्तैः ।
कल्कैः प्रोक्तैः कषायैर्दशभिरतितरां चोदैकरक्षैतलम् ॥ १०३ ॥
स्यादत्रैवाढकं तन्मृदुपचनविधौ लोहपात्रे विपक्वं ।
तत्तैलं भैषजैरादृढतरविलसल्लोहपात्रे न्यसेद्वा ॥
तैलेनैतेन यत्नान्नियतपरिजनः शुद्धदेहो निवाते ।
गेहे स्थित्वा तु नस्यं वलिपलितजराक्रांतदेहं प्रकुर्यात् ॥ १०४ ॥
कृत्वा तैलवेरेण नस्यमसकृन्मासं यथोक्तं बुधै--।
र्मर्त्यः स्यात्कमलाननः प्रियतमो वृद्धोऽपि सद्यौवनः ॥
तेनेदं महदक्षतैलममलं दद्यात् प्रियेभ्यो जने--।
भ्यःसंपत्तिसुखावहं शुभकरं तत्कर्तुरर्थागमम् ॥ १०५ ॥

भावार्थः--The Hindi commentary was not digitized.

667