640

शुक्र व आर्तव विकार की चिकित्सा.

एतेषु पंचसु च शुक्रमयामयेषु स्नेद्दादिकं विधिमिहोत्तरबस्तियुक्तम् ।
कुर्यात्तथार्तवविकारगणेषु चैव तच्छुद्धये विविधशोधनसत्कषायान् ॥ १४ ॥
कल्कान् पिबेच्च तिलतैल युतान्यथावत् पथ्यान्यथाचमनधूपनलेपनानि ।
संशोधनानि विदधीत विधानमार्गाद्योन्यामथार्तवविकारविनाशकानि ॥ १५ ॥

भावार्थः--The Hindi commentary was not digitized.

पित्तादिदोषजन्यार्तवरोगचिकित्सा.

दुर्गंधपूयनिभमज्जसमार्तवेषु देवद्रुमाम्रसरलागरुचंदनानाम् ।
क्वाथं पिबेत्कफमरुद्ग्रथिताप्रभूतग्रंथ्यार्तवे कुटजसत्कटुकत्रयाणाम् ॥ १६ ॥

भावार्थः--The Hindi commentary was not digitized.

शुद्धशुक्र का लक्षण.

एवं भवेदतितरामिह बीजशुद्धिस्निग्धं सुगंधि मधुरं स्फटिकोपलाभं ।
क्षौद्रोपमं तिलजसन्निभमेव शुक्रं शुद्धं भवत्यधिकमग्र्यसुपुत्रहेतुः ॥ १७ ॥

भावार्थः--The Hindi commentary was not digitized.

शुद्धार्तव का लक्षण.

शुद्धार्तवं मणिशिलाद्रवहंसपादिपंङ्कोपमं शशशरीरजरक्तवच्च ।
लाक्षारसप्रतिममुज्वलकुंकुमाभं प्रक्षालितं न च विरज्यत तत्सुवीजम् ॥