645

मार्कलमक्कलशूल और उसकी चिकित्सा.

तद्दुष्टशोणितनिमित्तमपीह शूलं सम्यग्जयेदधिकमार्कलसंज्ञितं तु ।
तद्बस्तिभिर्विधिवदुत्तरबस्तिना च प्रख्यातभेषजगणैरनिलापनुद्भिः ॥ ३३ ॥

भावार्थः--The Hindi commentary was not digitized.

उत्तरबस्तिका विशेषगुण.

तद्दुष्टशोणितमसृग्दरमुग्रमूत्र--।
कृच्छ्राभिघातबहुदोषसुबस्तिरोगान् ॥
योन्यामयानखिलशुक्रगतान्विकारान् ।
मर्मोद्रितान् जयति बस्तिरिहोत्तराख्यः ॥ ३४ ॥

भावार्थः--The Hindi commentary was not digitized.

धूम, कवलग्रह, नस्यविधिवर्णनप्रतिज्ञा और धूम भेद.

अत्रैव धूमकबलामलनस्ययोगव्यापच्चिकित्सितमलं प्रविधास्यते तत् ।
धूमो भवेदतितरामिह पंचभेदः स्नेहप्रयोगवमनातिविरेककासैः ॥ ३५ ॥

भावार्थः--The Hindi commentary was not digitized.

स्नेहनधूमलक्षण.

अष्टांगुलायतशरं परिवेष्ट्य वस्त्रेणालेपयेदमलगुग्गुलसर्जनाम्ना ।
स्नेहान्वितेन बहुरूक्षतरः शरीरे स स्नेहिको भवति धूम इति प्रयुक्तः ॥ ३६ ॥
94 95
  1. नस्यैरिति पाटांतरं.

  2. सूत्रेण इति पाठांतरं.