675
अभ्यंतरे स्थिरसुबीजवरं प्रकृत्य ।
बाह्ये कुरु प्रबलगंधककल्कलेपम् ॥ १९ ॥
सद्वृत्तमुत्तमगुणं प्रविधाय वज्र--।
मूषागतं वदनमस्य पिधाय धीमान् ॥
सम्यग्धमेत्खदिरसद्भमरैस्ततस्तं
निर्भेद्य शुद्धगुलिकामवलोक्य यत्नात् ॥ २० ॥
भूयस्तथैव बहुशः परिरंजयेत्तां ।
पूर्वप्रणीतगुलिकामथ भिद्य सूक्ष्मां ॥
चूर्णीकृतां रसवरे स च देयमादौ ।
मध्येऽवसानसमयेऽपि यथाक्रमेण ॥ २१ ॥

भावार्थः--The Hindi commentary was not digitized.

रस प्रयोग विधि.

हेमाभ्रकं पटलिकं पटुवज्रकाख्यं ।
संपेषयेल्लवणटङ्कणकोषणेन ॥
सार्धं पुनर्नवरसेन निबंधवेणी--।
नाद्यान्निधाय विपचेद्वरकांजिकायाम् ॥ २२ ॥
नाले प्रचोद्य सकलद्रवतां गतां त--।
103 104 105
  1. दहेत् इति पाठांतरं

  2. रदभ्रं इति पाठांतरं

  3. रूक्षां इति पाठांतरं