688
त्रिफलां पिब गव्यघृतेन युतां त्रिफलां सितया सहितामथवा ।
त्रिफलां ललितातिबलालुलितां त्रिफलां क्वथितां तु शिलाजतुना ॥ १० ॥

भावार्थः--The Hindi commentary was not digitized.

इति योगविकल्पयुतां त्रिफलां सततं खलु यां निपिबेन्मनुजः ।
स्थिरबुद्धिबलेंद्रियवीर्ययुतश्चिरमायुररं परमं लभते ॥ ११ ॥

भावार्थः--The Hindi commentary was not digitized.

शिलाजतु योग.

एवं शिलाजतु शिलोद्भवकल्कलोह--।
कांतातिनीलघनमप्यतिसूक्ष्मचूर्णं ॥
कृत्वैकमेकमिहसत्त्रिफलाकषायैः ।
संभावितं तनुभृतां सकलाभयघ्नम् ॥ १२ ॥

भावार्थः--The Hindi commentary was not digitized.

शिलोद्भव कल्प.

अथ शिलोद्भवमप्यतियत्नतः खदिरसारयुतं परिपाचितम् ।
त्रिफलया च विपक्कमिदं पिवन् हरति कुष्ठगणानतिनिष्ठुरान् ॥ १३ ॥

भावार्थः--The Hindi commentary was not digitized.

शिलाजतुकल्प.

यदि शिलाजतुनापि शिलोदकं पिब सदैव शिलोद्भववल्कलैः ।
अपि च निंबकुनिंबसुवृक्षकैर्निखिलकुष्ठविनाशकरं परम् ॥ १४ ॥