भल्लातपाषाण कल्प.

प्रख्यातोत्तमकोलिपाकनगराद्गव्यूतिमात्रत्रये ।
पूर्वस्यां दिशि कृष्णमेकमधिकं भल्लातपाषाणकम् ॥
तत्पाषाणनिजाभिधानविहितग्रामोपि तत्पार्श्वत--।
स्तैश्चान्यैरवगम्य सर्वममलं पाषाणचूर्णं हरेत् ॥ २६ ॥
तच्चूर्णाढकमाढकं घृतवरं भल्लाततैलाढकं ।
शुद्धं चापि गुडाढकं बहुवलैस्संसिद्धभल्लातकां--॥
घ्रिक्वाथैश्च चतुर्भिराढक्रमितैः पक्वं तथा द्रोणम--।
प्येतच्छुद्धतनुर्विशुद्धचरितस्सिद्धालये पूजयेत् ॥ २७ ॥
द्रोणं तद्वरभेषजं प्रतिदिनं मात्रां विदित्वा क्रमात् ।
लीद्वा भेषजजीर्णतामपि तथा प्रोक्तोरुवेश्मस्थितः ॥
शालीनां प्रवरौदनं घृतपयोमिश्रं समश्नन्नरः ।
स्नानाभ्यंगविलेपनादिकृतसंस्कारे भवेत्सर्वदा ॥ २८ ॥

भावार्थः--The Hindi commentary was not digitized.

693