702

भावार्थः--The Hindi commentary was not digitized.

सर्वार्धाधिकमागधीयविलसद्भाषाविशेषोज्ज्वलात् ।
प्राणावायमहागमादवितथं संगृह्य संक्षेपतः ॥
उग्रादित्यगुरुर्गुरुर्गुरुगुणैरुद्भासि सौख्यास्पदं ।
शास्त्रं संस्कृतभाषया रचितवानित्येष भेदस्तयोः ॥ ५४ ॥

भावार्थः--The Hindi commentary was not digitized.

सालंकारं सुशब्दं श्रवणसुखमथ प्रार्थितं स्वार्थविद्भिः ।
प्राणायुस्सत्ववीर्यप्रकटबलकरं प्राणिनां स्वस्थहेतुम् ॥
निध्युद्भूतं विचारक्षममिति कुशलाः शास्त्रमेतद्यथावत् ।
कल्याणाख्यं जिनेंद्रैर्विरचितमधिगम्याशु सौख्यं लभंते ॥ ५५ ॥

भावार्थः--The Hindi commentary was not digitized.

अध्यर्धद्विसहस्रकैरपि तथाशीतित्रयैस्सोत्तरै--।
र्वृत्तैस्संचरितैरिहाधिकमहावृत्तैर्जिनेंद्रोदितैः ॥
प्रोक्तं शास्त्रमिदं प्रमाणनयनिक्षेपैर्विचार्यार्थव--।
ज्जीयात्तद्रविचंद्रतारकमलं सौख्यास्पदं प्राणिनाम् ॥ ५६ ॥