706

द्विवार्षिकमरणलक्षण.

यदेव चंद्रार्कसुमण्डलं महीत्रिखण्डमाखण्डलकार्मुकच्छवि ।
प्रभाति सच्छिद्रसमेतमेव वा स जीवतीत्थं खलु वत्सरद्वयं ॥ ८ ॥

भावार्थः--The Hindi commentary was not digitized.

वार्षिकमृत्युलक्षण.

यदर्द्धचंद्रेपि च मण्डलप्रभां ध्रुवं च तारामथवाप्यरुन्धतीम् ।
मरुत्पथं चंद्रकरं दिवातपं न चैव पश्येन्नहि सोऽपि वत्सरात् ॥ ९ ॥

भावार्थः--The Hindi commentary was not digitized.

एकादशमासिकमरणलक्षण.

स्फुरत्प्रभाभासुरमिंदुमण्डलं निरस्ततेजोनिकरं दिवाकरं ।
य एव पश्यन्मनुजः कदाचन प्रयाति चैकादशमासतो दिवम् ॥ १० ॥

भावार्थः--The Hindi commentary was not digitized.

दशमासिक मरण लक्षण.

प्रपश्यति छर्दिकफात्ममूत्रसत्पुरीपरेतस्सुरचापसत्प्रभं ।
सुवर्णताराच्छविसुप्त एव वा प्रबुद्ध एवं दशमान्स जीवति ॥ ११ ॥

भावार्थः--The Hindi commentary was not digitized.

नवमासिक मरण लक्षण.

सुवर्णवृक्षं सुरलोकमागतं मृतान्पिशाचानथ बांबरे पुरे ।
प्रदृश्य जीवेन्नवमासमद्भुतान् प्रलंबमा नानधिकान्नतान्नरान् ॥ १२ ॥