36

क्षेत्रलक्षण कथन--पतिज्ञा ।

इत्थं लसत्सत्प्रकृतिं विधाय । वक्ष्यामहे भेषजलक्षणार्थम् ।
सुक्षेत्रमक्षूणगुणप्रशस्तम् । श्वभ्रात्मवल्मीकविषैर्विहीनम् ॥ २८ ॥

भावार्थः--The Hindi commentary was not digitized.

औषधिग्रहणार्थ अयोग्य क्षेत्र ।

{??}लयं प्रेतगणाधिवासं । शीतातपात्यंतहिमाभिभूतम् ।
तोयावगाढं विजलं विख्यं । निस्साररूक्षक्षुपवृक्षकल्पम् ॥ २९ ॥
क्षेत्रं दरीगुह्यगुहाप्रभूतं दुर्गंधसांद्रं सिकतातिगाढम् ।
वर्ज्यं सदा नीलसितातिरक्तं । भस्माभ्रकापोतकनिष्ठवर्णम् ॥ ३० ॥

औषधग्रहणार्थ प्रशस्तक्षेत्र ।

स्निग्धप्ररोहाकुलफुल्लवल्ली लीलाफलालीलमहीरुहाख्यम् ।
माधुर्यसौंदर्यसुगंधबंधि प्रस्पष्टपुष्टोरुरसप्रधानं ॥ ३१ ॥
सुस्वादुतोयं सुसमं सुरूपं साधारणं सर्वरसायनाढ्यम् ।
क्षेत्रं सुकृष्णं मृदुसप्रसन्नं ज्ञेयं सदा ह्यौषधसंग्रहाय ॥ ३२ ॥