81
इति । विरुद्धधर्माध्यासस्य सर्वत्र भेदलक्षणत्वादिति । न
ह्येकस्य त्रैरूप्यमुपपद्यते । यदिह सत्यपि विरुद्धधर्माध्यासे
अनेकान्तवादनिरासः
इदानीमार्हतमतं विचार्यते;--इहामी दिगम्बराः द्रव्य
पर्यायरूपेण उत्पत्तिस्थितिप्रलयात्मकं भावग्रामं वर्णयन्ति ।
तत्रावस्थासु सकलासु अनुगतस्वभावं द्रव्यमाचक्षते, यथा
केयूरकटककुण्डलाद्यवस्थास्वनुयायि सुवर्णम् । सत्यद्रव्यात्मनि
उत्पादव्ययधर्मकाः पर्यायाः । यथा सत्यपि द्रव्ये जायमाना
व्ययमानाश्च केयूरादयः । यथा घटं भञ्जयित्वा मौलिः क्रियते
तथा घटो नश्यति मौलिरुत्पद्यते, सुवर्णं तु नोदेति न व्येति,
इति उत्पादव्ययध्रौव्यात्मकं वस्तु । यदाह--
न नाशेन विना शोको नोत्पादेन विना सुखम् ।
स्थित्या विना न माध्यस्थ्यं तस्माद्वस्तु त्रयात्मकम् ॥
इति । विरुद्धधर्माध्यासस्य सर्वत्र भेदलक्षणत्वादिति । न
ह्येकस्य त्रैरूप्यमुपपद्यते । यदिह सत्यपि विरुद्धधर्माध्यासे