162

वाचस्पतेस्तु2426 प्रपञ्चः, तथा हि धूमादीनां वह्न्यादिभिः स्वाभाविकः सम्बन्धः,
न तु वह्न्यादीनां धूमादिभिः । ते हि विनापि धूमादिभिरुपलभ्यन्ते । यदा तु आर्द्रेन्धन
सम्बन्धमनुभवन्ति तदा धूमादिभिः सम्बध्यन्ते । तस्माद् वह्न्यादीनामार्द्रेन्धनाद्यु
पाधिकृतः सम्बन्धः, न तु स्वाभाविकः । ततो न नियतः । स्वाभाविकस्तु धूमादीनां
वह्न्यादिभिः सम्बन्धः, तदुपाधेरनुपलभ्यमानत्वात् ।

  1. ता. टी. पृ. १३८