1b

नमो भगवते वीतरागाय ।

इह दहनादिना धूमादेर्व्याप्तिरध्यक्षानुपलब्धिसाधनतदुत्पत्तिलक्षणेति व्युत्पाद्यते ।
परे हि पुरस्तनास्तावदग्निमति धूमस्य दर्शनमदर्शनं च तद्विरहिणीत्येवान्वयव्यतिरेकित्वं
कल्पयाम्बभूवुः । तत्र दर्शनादर्शनं यादृच्छिकमपि सकृद् भवेदिति च भूयः प्रवृत्ति
मपेक्षते । ननु भूयसापि प्रवृत्ते दर्शनादर्शने घटकुलटादावुपलब्धो व्यभिचार इति
चेत् ? किमेतावता, तत्राप्यनुमानमस्त्वित्युच्यते, अथ तद्वद् धूमादावपि मा भूदिति ?
प्रथमपक्षस्तावद् व्यभिचारादेव निरस्तः । द्वितीयोऽप्यव्यभिचारादेव । न ह्यन्यस्य
व्यभिचारे धूमस्य किञ्चित् । न खलु विषान्नमनिष्टमिति भक्ष्यान्तरमपि हेयमस्तु ।
तावता च सर्वा निवृत्तिर्लब्धेति किमुत्पत्तिप्रार्थनया, तन्निश्चयोपयोगिना वा प्रत्यक्षा
नुपलम्भेन ? तदुत्पत्तिरपि यदि दर्शनादर्शनादेव गृह्येत कीदृशो दोषः ? अनुमानमेव
च विभागेन भवत्विति तदन्वेषणम् । स च विभागो व्यभिचाराव्यभिचारद्वारेण
सिद्धः । असति च व्यभिचारे तावतैव गमकत्वम्, अनर्थिका तदुत्पत्तिः । व्यभिचारे च
शतमपि तदुत्पत्तयो न समर्थाः । तस्मात् सन्निकर्षेण पर्येषणं संयोगेनैव कृतार्थम् । अतएव
संयोगी हेतुरुच्यते वह्नेर्धूमो न कार्यमिति ।

त्रिलोचनस्त्वाह, प्रत्यक्षानुपलम्भयोर्विशेषविषयत्वात् कथं ताभ्यां सामान्ययोः
सम्बन्धप्रतीतिः ? अथानग्निव्यावृत्तेनाधूमव्यावृत्तस्य सम्बन्धः प्रतीयत एवेति, ननु
सोऽपि कस्य प्रमाणस्य विषयः ? न तावत् प्रत्यक्षस्य, तस्य स्वलक्षणविषयत्वात् ।
नाप्यनुमानस्य, तस्यापि तत्पूर्वकत्वात् । न च व्यावृत्तः कश्चित् सम्बन्धः । अथ प्रत्यक्ष
पृष्ठभावी विकल्पो दृष्टे भेदेऽभेदमध्यवस्यति, तदेव सामान्यम् । एवमपि विकल्पानां
न वस्त्वेव विषयः, अपि तु ग्राह्याकारः । स च न वस्तु । वस्तु तु तेषां परोक्षमेवेति
कथं तेनापि सम्बन्धग्रहः ? अस्माकं तु भूयोदर्शनसहायेन मनसा तज्जातीयानां सम्बन्धो
गृहीतो भवति, अतो धूमो नाग्निं व्यभिचरति । तद्व्यभिचारे धूम उपाधिरहितं
सम्बन्धमतिक्रामेदिति हेतोर्विपक्षशङ्कानिवर्तकं प्रमाणमुपलब्धिलक्षणप्राप्तोपाधिविरह
हेतुरनुपलम्भाख्यं प्रत्यक्षमेव । ततः सिद्धः स्वाभाविकः सम्बन्धः ।