244
व्यभिचार इति चेत्—न, प्रतिक्षिप्तस्य पक्षीकरणे न्यायाभावात् । अन्यथा अनुष्णोऽग्निः
प्रमेयत्वादित्यादावपि पक्षीकरणमेव शरणं स्यात् । तथा हि,

सन्दिग्धे हेतुवचनाद् व्यस्तो हेतोरनाश्रयः ।
प्र. वा. ४. ९१

इति न्यायः । अध्यक्षमेव प्रतियोगिनः प्रतियोग्यन्तरापेक्षयानुपलब्धिरुच्यते ।