द्वितीयः खण्डः

तदेवं साध्यविशेषापेक्षया व्याप्तिदूषणमभिधाय प्रयत्नवन्मात्रेऽप्यभिधातुं
वितर्कयन्नाह,

स्थित्वा प्रवृत्तिसंस्थानविशेषार्थक्रियादिषु ।
इष्टसिद्धिरसिद्धिर्वा दृष्टान्ते संशयोऽथवा ॥

इति । दृष्टोऽन्तो दृष्टान्तः सिद्धान्त इति योऽर्थः, प्रयत्नवन्मात्रेण व्याप्तेः सिद्धत्वात्,
एकानेकरूपानतिक्रमाच्च वस्तुनः । स्थित्वा प्रवृत्त्यादिषूपन्यस्तेषु वादिन इष्टसिद्धिः किमस्तु
एकत्वपक्षे, असिद्धिमात्रं वानेकत्वे, अथ व्याप्तिरेव नास्तीति सिद्धान्ते संशय एव
उभयत्रापीति प्रश्नार्थः ।

अत्र चानन्तरमभेदसाधनाधिकारेण सन्दिग्धविपक्षव्यावृत्तिकत्वोद्भावनेन
दत्तमेवोत्तरम् । अतस्तृतीय एव पक्षः । न हि प्रयत्नोपयोगमन्तरेणापि कार्यजन्मनि
संभाव्यमाने बाधकं किञ्चिदालोचयामः । तत् कुतस्तत्र नियमः कार्यादेः ? अथ
कालदेशाद्यनियमप्रसङ्गो बाधकः ? तदयुक्तम्, यतः प्रतिनियतशक्तेरसर्वकालभाविनः
स्वकारणायत्तसन्निधेः कारणदशाविशेषस्य व्यतिरेकेऽपि व्यतिरेकः कार्यस्य संभवन्न
प्रयत्नवन्नान्तरीयकत्वमुपकल्पयितुं कल्पते । सर्वथा हेत्वनपेक्षायां तद्वाधकमुपपद्यमानं
कार्यस्य हेतुमात्रेण व्याप्तिं साधयेत् । न तु हेतुविशेषेण प्रयत्नवता ।

ननु कारणं नाम सर्वत्र कलाप एव, स च न व्यग्रावस्थायाम् । तत्संहतिश्च
प्रयत्नवन्तमन्तरेण यदि स्यात्, नित्यमेव स्यात् । एवं देशेऽपि वाच्यम् । ततश्च
स एव देशकालनियमप्रसङ्ग इति, चैतन्यनिरपेक्षत्वेन कलापकार्यत्वस्य व्यापकस्याभावेन
कार्यत्वादयोऽसंभवन्तः प्रयत्नवदपेक्षत्वेन व्याप्यन्त इति चेत् ? एवं तर्हि सोऽपि प्रयत्न
वान् यदि क्षणिकः प्रादेशिकश्च तत्क्षणैकदेशत्वमेव सर्वकार्यग्रामस्य स्यादिति सनातन
एवाङ्गीकर्तव्यो व्यापी च । ततश्च स एव देशकालानियमोऽद्यापि प्रसक्त इति
किमस्योपगमेन ? अथ सोऽदृष्टमपेक्ष्य जनयन्नियतं जनयेत् ? जडानां तु नादृष्टं
लोचनमिति ।

एवं तर्हि तददृष्टपरिपाकसहाया एव प्रत्यया नियतमुत्पादयिष्यन्ति निरालोचा
अपीति किं चैतन्येनेति चेत् ? एवं ब्रुवतः कुलालादेरपि वैयर्थ्यप्रसङ्गः, न हि तत्रापि
नादृष्टमस्ति सहकारि । न चैवम् । तस्माद् विपर्ययः । या या सामग्री सा नादृष्टा
पेक्षया पुरुषप्रयत्नं विफलयति । 39a यथा सूत्रपिण्डदण्डचक्रादिः । सामग्री च
280
गिरिसागरादिजनिकेति विरुद्वव्याप्तोपलब्धिः । प्रयत्नविफलीकरणं हि तदनपेक्षत्वम्
अम्बरादौ सिद्धं निषेध्यम् । तेन यद् विरुद्धं प्रयत्नापेक्षत्वं तद्व्याप्तं सामग्रीत्वम्, तस्या
यत्नकार्यत्वात् ।

अत्रोच्यते । यदि प्रयत्नकार्यं सामग्री सर्वोपसंहारेण सिध्येद्, युक्तमेतत् । न
चैवम्, न हि तत्रापि विपर्यये बाधकं किञ्चिदस्ति । यथा हि कार्यं स्वकारणायत्तसन्निधेः
कारणावस्थाविशेषस्यापेक्षया असर्वकालभावि संभाव्यते, तथा सामग्र्यपि किं न स्यात्,
यतो नित्यं भावप्रसङ्गश्चोद्येत ? ततश्चानिवर्तितविपक्षवृत्तिशङ्का सामग्री यदि प्रयत्नापेक्षां
नियच्छेत्, व्साक्षात्कार्यत्वादिभिरेव कीदृशोऽपराधः कृतः, येन तदुपन्यासे संशयितस्य
सामग्री शरणमुपक्षिप्यते ?

मृदादयः पुरुषादेव मिलन्तो दृष्टा इति चेत् ? कार्यमपि प्रयत्नवत एव जाय
मानमुपलब्धमिति किं नोच्यते ? यथा च यद्यपि किमपि कार्यं प्रयत्नवतो दृष्टम्, तथापि
कार्यान्तरं तिरस्कृत्यापि बुद्धिमन्तं भविष्यतीति शङ्का, तथा सामग्र्यपि संभाव्यमाना
कमर्थं पुष्णाति ? ततोऽनुक्तसममेतत् । तस्मात् सामग्रीमपि मध्ये प्रक्षिप्य कुम्भादिषु
सामग्र्यास्तथा दर्शनमेव प्रमाणयितव्यम् । तथा च सति कार्यमेव प्रत्यक्षानुपलम्भैः
प्रत्यत्नवन्नान्तरीयकं सिद्धमित्येव साधु । किमत्र व्याप्तिसिद्धये बाधकप्रमाणोपन्यास
शौटीर्येण ? अथ वक्ष्यमाणक्रमेण प्रत्यक्षानुपलम्भा जातिविशेषमेव विषयीकर्तुं शक्नुयुरिति
न कार्यमात्रं प्रयत्नवता व्याप्तं सिध्येत् ? तदर्थं विपर्ययबाधाश्रयणम्, एवं तर्हि सामग्र्या
अपि प्रयत्नवत्कार्यत्वे त एव प्रत्यक्षानुपलम्भाः शरणमिति एवंविधा संहतिः प्रयत्नवता
क्रियत इति युक्तः सर्वोपसंहारः । तथा च,

न व्यग्रादुदयः क्वचिन्न च चयश्चैतन्यशून्याद् भवेद्
भावे किं न सदा सदातनतनोरप्येष दोषः समः ।
तस्यादृष्टमपेक्ष्य कालनियमे किं चेतसा चेत् तदा
कुम्भादावपि शिल्पिनो विफलता नैतच्च तद्व्यत्ययः ॥
कुम्भादौ यदि दर्शनादभिविधिः किं व्यत्यये बाधया
प्रत्यक्षानुपलम्भतः किमु मता न व्याप्तिरेवं सति ।
तेषां जातिविशेष एव विषयो यद्येवमेवंविधो
व्यूहश्चेतनतो भवेदिति भवेदन्यत्र को निश्चयः ॥

इति संग्रहश्लोकौ ॥

281

न च सामग्र्यन्तरस्यातत्पूर्वकत्वे अस्या अपि मा भूदिति युक्तम्, असर्व
व्यापिनामपि धर्माणां प्रदेशवृत्तेर्दर्शनात् लोहलेखनस्येव पार्थिवे, असिद्धशरीर
पूर्वकत्वस्येव वा कार्ये । तत्र बाधकान्न सर्वव्यापित्वमिति चेत् ? तदस्फुरणे तर्हि
संशयः केन निवार्यते । यथा हि न परस्य बाधकं कलापान्तरेऽपि कार्यान्तरादौ वा
चेतनापेक्षायाः, तथा भवतोऽपि सर्वजातौ तयावश्यंभाव्यमिति न साधकमस्ति ।
यथा च तव क्वचिद्बुद्धिमदपेक्षादर्शनमस्ति, तथा परस्याप्येकत्र दृष्टस्य 39b धर्मस्य
भिन्नजातीयाव्याप्तिदर्शनमस्ति । ततो लोहलेखनस्य शरीरव्यापारस्य च क्वचिद्
बाधकादर्शनं सन्देहसाधनमुपयुक्तमेव परस्य, अन्यथा संशयस्यैव निर्बीजताप्रसक्तेः ।

न च साधारणानैकान्तः प्रारब्धोऽधुनाभिधातुम्, यतस्तद्वदत्र बाधकानुपदर्शनं
बाधकं स्यात् प्रतिवदितुः, अपि तु सन्दिग्धविपक्षव्यावृत्तिकत्वमेव । तच्च सिद्धं,
दृष्टान्ते दृष्टिमात्रेण व्याप्तेरसिद्धेः, निबन्धनान्तरस्याभावात् । एतेन क्षित्यादिहेतूनाम्
अचेतनत्वे सति नियतप्रवृत्तित्वेन प्रासादादिहेतुवत् प्रयत्नवदधिष्ठानासिद्धिरित्यपि
प्रत्युक्तम् । अचेतसोऽपि कालादिनियतायाः प्रवृत्तेः प्रयत्नवन्नान्तरीयकत्वसाधक
प्रमाणस्य तद्वदेवाभावादिति ।

नापि कार्याविरामप्रसङ्गः सङ्गतिमावहति, अपरापरप्रत्यययोगजन्यस्वभावभेद
संभवेन भावेष्वेकशक्तिनिर्वाहस्य दूरीकृतत्वात् । ततश्च कर्तुरेकत्वे सन्देहोद्भावनेन
समानन्यायतया आगतमेव बुद्धिप्रतिबन्धं परपरितोषाय साधारणानैकान्तिकत्वेन
दूषयितुमाह,

स्थित्वा प्रवृत्तिसंस्थानविशेषार्थक्रियादिषु ।
इष्टसिद्धिरसिद्धिर्वा दृष्टान्ते

इति । वाशब्दः समुच्चये । एषु सत्सु यदिष्टं चैतन्यं तस्य दृष्टान्ते साधनवति धर्मिणि
सिद्धिरसिद्धिश्च घटादौ विटपादौ च यथाक्रमम् । ततो व्यक्तं विपक्षैकदेशे वृत्तिरेषामिति
भावः । एतेन यदि कृतकादिवद् विपर्ययबाधाभिधानमशक्यम्, धूमादिवत् प्रत्यक्षा
नुपलम्भाभ्यामन्वयव्यतिरेकप्रतीतिः प्रयत्नेन सह कार्यादीनां भविष्यतीति गत्यन्तरम्
अपास्तम्, तमन्तरेणापि कार्यस्योदयाद् व्यतिरेकस्यैवाभावादित्युक्तम् ।

ननु बुद्धिमत्त्वं नाम दृश्यादृश्यशरीरेतरसाधारणो धर्मः क्ष्मारुहादिजन्मनि
व्याप्रियमाणं नास्तीति कथमवगन्तव्यम्, अनुपलब्धिमात्रादभावासिद्धेः ? युक्तमेतत्,
282
यदि दृश्यशरीरोपाधिविधुरेण बुद्धिमात्रेण व्याप्तिरभिमता स्यात् । बाढमेवेति चेत् ?
एवं तर्हि धूमवद्व्यत्तिरेकमेवाधिकृत्याह,

संशयोऽथ वा

इति । यदा कुम्भकारव्यापारात् प्राक् कलसस्य व्यतिरेकः प्रत्येतव्यः, तदा न साध्या
भावकृतो घट व्यतिरेकः प्रतीतः स्यात्, साध्याभावस्य सन्देहात् । न हि तथाविध
शरीरोपाधिकेन चेतसा व्याप्तिर्जिज्ञासिता, यतोऽनुपलब्धिविशेषेण निषेधः सिध्येत्,
किं तु प्रयत्नवन्मात्रेण । तस्य च यथा वृक्षादिजन्मसमये संभावना निषेधस्याशक्य
त्वात्, तथाद्यापीति, तत्संभवेऽपि संभाव्यमानः कुम्भाभावस्तदभावप्रयुक्तत्वमात्मनो
बोधयितुं न शक्नोतीति सन्दिग्धव्यतिरेकः ।

ननु साध्याभावे साधनस्य भावसंशये सन्दिग्धो व्यतिरेक इति युक्तम्, न तु
कुलालव्यापारात् प्राक् कुम्भभावः सन्दिह्यत इति चेत् ? तदयुक्तम्, साध्यव्यतिरेक
प्रयुक्तो व्यतिरेकः साधनस्य 40a व्याप्तिवादिना दर्शयितव्यः । स च साध्याभाव
सन्देहाद् वा स्वयमतोऽपि न दर्शितः । साध्याभावेऽपि वा स्वभावसन्देहादिति न
कश्चिद् विशेषः, उभयथापि तस्य सविशेषणस्य सन्दिग्धत्वादिति । अतएव सन्दिग्ध
साध्यसाधनधर्मित्वं दृष्टान्तयोर्दोष उच्यते ।

यदि तु साधनाभावमात्रमभिधीयेत साध्याभावमनपेक्ष्य, तदा युक्तमेतत् ।
न च तावता व्याप्तिग्रहः । अन्यथा प्रत्यक्षानुपलम्भाभ्यां व्याप्तिं प्रतिपद्य पवनोपघात
साधनोपनीयमानः कम्पो यदा मर्दनादिसंभवेन कम्पेन साधारणं क्रियते, तदा
स्तिमितमारुतमस्पर्शयोग्यतया निषेद्धुमशक्यं संभाव्य परिहरन्ननिवार्यः स्यात् ।

तत्र विशेषसाधनाद् व्यभिचार एवेति चेत् ? कुतः पुनरेतद्विशेषस्तेन साध्यत
इति ? उपहतिशब्दस्त्वशरीरव्यापारवत् तदनुरूपविषयो भविष्यति, प्रत्यक्षानुप
लम्भेन व्याप्तिवर्णनादिति चेत् ? तदपि भवतः समानम्, यथा चास्य तादृग्मरु
न्मात्रापेक्षया अदृश्यत्वेन व्यभिचारपरिहारे व्याप्तिग्रहणकालेऽदृश्यत्वेनैव व्यतिरेका
सिद्धिस्तथा भवतोऽपि शरीरविरहिणि चैतन्यमात्रे । ततो यदा तदभावसंशयेऽपि
कार्याभावमात्रेण व्याप्तिग्रहणाभिमानस्तथा अस्पृश्यप्रभञ्जनाभावसंशयेऽपि कम्पाभावः
सिद्ध इति स्याद् व्याप्तिः ।

283

अथ न कश्चित् देहवतेव देहविरहिणापि व्याप्तिं करोति, किं तु चैतन्यमात्रेण,
तच्च कायवत्कालेऽप्यस्ति विशेषसंभवे सामान्यस्यावश्यंभावादिति तदपेक्षया व्याप्तिग्रहः
सामान्यविषय एवावतिष्ठते, वह्नाविव वह्न्यन्तरस्वरूपानुप्रवेशादिति । एतदपि समानं
समीरानुमाने । न च कश्चित् चेतनावान् वेपथुमात्रेण मारुतमनुमिमीते, सर्वगत्वा
ध्यवसायेऽपि कम्पमात्रस्य साधनसामर्थ्याप्रतीतेः । न हि राज्यमिष्टमिति तन्नामकरणा
नन्तरमुपजायमानमपि तदुपायवादिनं प्रमाणीकरोति, साधनमपि वा कृतकत्वं वस्तुतः
असाधनाङ्गो व्यापकत्वेनोपनीयमानमनित्यतासिद्धौ ।

तस्मात् न कोष्ठशुद्ध्या प्रमेयतथाभावेन परितोषः, प्रमाणगुणस्तु निरूप्यते ।
न च कम्पस्य मरुन्मात्रेण व्याप्तिसिद्धौ किञ्चिद् विपर्यये बाधकमस्ति, प्रत्यक्षानुप
लम्भास्तु स्वगोचरीभावयोग्यमेव स्वभावदेशकालविप्रकृष्टमपि तदा त्वसन्निहितेऽन्त
र्भावयितुं शक्नुवन्तीत्यवश्यमेषितव्यम्, नान्यम् । अन्यथा व्याप्तिग्रहणवद्व्यभिचा
रोऽपि तन्निष्ठ एव प्रसज्येत । ततो यथा विशेषविषयावन्वयव्यतिरेकौ प्रत्यक्षाद्यगोचर
चैतन्यमरुन्मात्रविषयौ व्यवस्थितौ, तथापि विशेषविषयो व्यभिचारोऽपि तन्मात्र
विषयः किं न व्यवस्थाप्यते ? न हि लाभे प्रवेशः, छेदे निःसरणमिति लभ्यम् ।

वह्निस्तु देशकालविप्रकृष्टोऽपि तदात्मा सन्निहित इव स्वभावविप्रकृष्ट 40b
प्रत्यक्षादियोग्यतया तदनुप्रवेशमासादयतीति युक्तम्, यतस्तदेकाध्यवसायात् सर्व एव
धूमव्यापकतयावधार्यमाणो न दुष्यति, जाठरं तदयोग्यतया तथा निश्चायि । अत एव
धूमादभिमते शिखिनि प्रवृत्तिरसंशयानस्य युज्यते । इतरथा प्रत्यक्षायोग्येनापि व्याप्तिः
आश्रयभुजा गृह्यमाणा धूमस्य तद्योग्यायोग्यदहनसामान्यविषयैव व्यवतिष्ठत इति
तार्णादिभेद इवाभिमतेऽपि रूपे सन्दिहानो न तत्साध्यार्थक्रियालाभैकाग्रबुद्धिः प्रवर्तेत ।
प्रतिबन्धवैकल्यवद् वा असति जाठरत्व इत्यामृषतः प्रवृत्तिः स्यात् । न चैवम्, तस्मान्न
स्वरूपविशेषनिष्ठं प्रमाणं सामान्येन व्याप्तिं प्रपद्यते ।

अनित्यत्वेन तु कृतकत्वस्य व्याप्तिं विपर्ययबाधकप्रमाणमधिगच्छद् भूत्वा
भवनमात्रेण विशेषानवच्छिन्नेन प्रवृत्तमिति सामान्येनैवाधिगच्छति । नापि कृतकात्
प्रवर्तमानोऽभिमतानित्यैकाग्रबुद्धिः कश्चित् प्रवृत्तिमर्हति । अतश्च सामान्यपर्यवसितमपि
प्रमाणं न विशेषेण व्याप्तिं गृह्णातीति सिद्धम् । उक्तं च न्यायानुसारिणा शंकरेण, यत्
प्रमाणं यावतीमर्थगतिं व्याप्नोतीत्यादि । यत् प्रमाणं यत्स्वभावसापेक्षप्रवृत्तिकं तन्नैव
तदितरस्वभावेन कस्यचिद् व्याप्तिं प्रतिपद्यते, यथा विपर्ययबाधकं भूत्वाभवनमात्रा

284
पेक्षमनित्यविशेषेण कृतकत्वस्य । यथा वाभिमतस्वरूपविशेषापेक्षमध्यक्षानुपलम्भम्
अग्नेर्जाठरसाधारणेन रूपेण धूमस्य । स्वरूपविशेषापेक्षप्रवृत्तयश्च प्रत्यक्षानुपलम्भाः
प्रभञ्जनेन कम्पस्य व्याप्तिग्रहण इति व्यापकविरुद्धोपलब्धिः, मातरिश्वलघुत्ववत्
प्रत्यक्षप्रवृत्तेरभावात् ।

नाप्यनेकान्तः । विवक्षितस्वभावेन हि कस्यचित् व्याप्तिग्रहणं प्रमाणस्य तत्स्व
रूपापेक्षप्रवृत्तिकत्वेन व्याप्तम्, अन्यथातिप्रसङ्गः प्रवृत्तिसंकरश्च दोषः । तद्विरुद्धा च
तदितरस्वभावापेक्षा प्रवृत्तिः, तस्मात् स्वरूपविशेषापेक्षं प्रत्यक्षानुपलम्भं नानिलमात्रेण
स्तिमितेतरसाधारणेन कम्पस्य व्याप्तिं प्रतिपद्यत इति प्रमाणार्थः । ततो न परमार्थतः
कम्पेन पवनानुमानमस्ति ।

अथ च न काचिद् भवदीयसमयसमाधानकल्पना, या नैनमनुधावति, न
चैतदीयमप्रामाण्यनिबन्धनं किमपि, यन्न भावत्कमनुमानमुपनीयते, ततश्च वह्निधूम
वत् प्रयत्नवत्कार्ययोर्यदि व्याप्तिसिद्धयेऽध्यक्षानुपलम्भं शरणमाश्रियते, तदा तत्प्रवृत्ति
योग्यस्वरूपापेक्षया प्रयत्नवतो नियतो व्यभिचारः कार्यमात्रेण तृणादिना ।

अथ व्यभिचारचमत्कारागोचरेण चेतनावता व्याप्तिरिष्यते, तदा महीरुहादि
जन्मनीव शिल्पिव्यापारादपि प्राक् निषेद्धुमशक्ये प्रयत्नवन्मात्रव्यापारे 41a
व्यतिरिच्यमानो घटादिः कस्याभावप्रयुक्ताभावोऽवधार्यताम्, यतस्तेन व्याप्तः सिध्ये
दिति सन्दिग्धविपक्षव्यावृत्तिकतया पुनरनेकान्तः पूर्वं दृश्यादृश्यविशेषमनपेक्ष्य
विपर्यये बाधकाभावं स्वयमुपदर्श्य कृतः, इदानीं वादिन एवाभ्युपगमेन तदिष्टप्रमाणा
पेक्षया व्यतिरेकासिद्धेरिति भेदः । विपक्षबाधकं तु हेतुमात्रेण व्याप्तिं प्रतीयात् न
तद्विशेषणबुद्धिमतेत्युक्तम् ।

ननु वृक्षादयः पक्षीकृता इति कथं तैर्व्यभिचारः ? त्रिविधो हि भावराशिः,
सन्दिग्धकर्तृको बुद्धिमत्कर्तृकोऽकर्तृकश्चेति । तत्र बुद्धिमत्कर्तृके घटादौ प्रत्यक्षानुप
लम्भाभ्यां व्याप्तिमादाय सन्देहपदे भूधरादौ कार्यत्वमुपसंहृत्य प्रयत्नवान् साध्यते ।
न पुनरसौ व्यभिचारविषयो भवितुमर्हति ।

यदाह, न च साध्येनैव व्यभिचार इति, तदयुक्तम् । न हि व्यभिचारविषय
एव पक्षो भवितुमर्हति,
285

सन्दिग्धे हेतुवचनाद् व्यस्तो हेतुरनाश्रयः ।
प्र. वा. ४. ९१

इति न्यायात् । ततश्च क्ष्माधरादिरेव सन्दिग्धकर्तृकः पक्षीकर्तुमुचितः । क्ष्मारुहादिः
त्वचेतनकर्तृक इति चतुर्थो राशिरेषितव्यः । व्याप्तिसमीहया प्रत्यक्षयोग्याभिमतस्य
वृक्षादिजन्मन्यनुपलब्धेरिति कथं पक्षीकरणम् ? मा भूदशेषसाधारणानैकान्तिको
च्छेदः ।
कार्यत्वस्य विपक्षवृत्तिहतये संभाव्यतेऽतीन्द्रियः
कर्ता चेद् व्यतिरेकसिद्धिविधुरा व्याप्तिः कथं सिध्यति ।
बाधा त्वाहितहेतुमात्रनियतिर्भेदेन न व्याप्तये
नाप्यर्धो व्यभिचारगोचरचरः पक्षीक्रियायां क्षमः ॥

इति संग्रहश्लोकः ॥

ननु तथापि कथमव्याप्तिराकाशस्य व्यतिरेकग्रहणाधिकरणस्य संभवात् ?
यदाह, बुद्धिमत्कारणसद्भावे भावो घटादावुत्पत्त्यादेः, अभावे चाभावो गगनादिषु,
स च तथाप्रसिद्धाविनाभावो यत्रैव क्षित्यादावुपलभ्यते, तत्रैव तद्विनिर्माणसमर्थकर्तृ
बुद्धिं तद्विदो जनयतीति । उत्पत्त्यादेरिति कार्यत्वादेरित्यर्थः । अत्राभिधीयते । न
साधर्म्येण वैधर्म्येण वा दृष्टान्तमात्रमस्तीति साध्यसिद्धिः, यदृच्छोपनतावपि तथा
संभवात् । तस्मान्निदर्शनं नाम गृहीतविस्मृतप्रतिबन्धसाधकप्रमाणस्मरणद्वारेणैव
हेतावुपयोगि, न स्वसन्निधिमात्रेण ।

स च प्रतिबन्धो द्वारान्तरेण वा गृहीतो विहायसा स्मर्येत, स्वाधिकरणप्रमाण
प्रसिद्धो वा ? तत्र तावत् प्रथमकल्पनमपास्तं, प्रागेव दृश्यशरीरोपाधिना धीमात्रेण
वा कार्यत्वादेर्घटावपि प्रतिबन्धग्रहणोपायापायात् । चरमं चासंभवि । तथा हि,
यदि नाम व्योम्नि द्वयनिवृत्तिरुपलब्धा, तथाप्येकाभावप्रयुक्तत्वनिश्चयायोगादन्याभावे
विश्वरूपस्य च तत्रावृत्तेः कस्य केन संबन्धबोधः स्यात् ? करभगर्दभादेरपि 41b
कार्यकारणभावग्रहणप्रसङ्गाच्च । अन्यत्रान्वयदर्शनसहायस्य तथा प्रतीतिरिति चेत् ?
ननु सहदर्शनमेवान्वयार्थः, तच्च कदाचित् करभादेरप्यस्तीति साध्वी व्यवस्था ।

न सहदर्शनमन्वयस्यार्थः, किं त्वेकसंभवप्रयुक्तोऽन्यभावः । स च बुद्धि
मत्कार्यत्वयोरस्ति नान्यत्रेति चेत्—न, तद्भावप्रयुक्तत्वं नामापरभावस्य न तद्व्यापारात्
286
प्रागभाविनः सत्तालाभादन्यः प्रागभावश्च नानुपलब्धिव्यापारमन्तरेणेति प्रत्यक्षानुप
लम्भाभ्यामन्वयव्यतिरेकयोर्निश्चये संशयो नाम कीदृक् हेतुफलस्थिताविति तत्प्रतीति
प्रतिबन्धस्मरणमेव विहायसा विधीयत इति प्रथमपक्ष एवायम् ।

किं च किमिदमीश्वरेऽनुजोविवृत्ताविवृत्ताविष्करणमात्रमत्रभवतः, उत प्रतिवन्दी
कृते ? धूमानुमानेऽपि सैव गतिः, एकत्रोभयसंभवमुपलक्ष्यान्तरीक्षे एकव्यापारनिवृत्तौ
अन्यनिवृत्तेरुपलक्षणाद् व्याप्तिग्रह इति । यद्येष एव न्यायः, तदा तदिच्छतामनिबन्धनः
प्रकृतप्रद्वेषः, केवलमेवं विलपता दहनानुमानमपि हारितं, दूरतरा तु प्रकृतसिद्धिः,
उक्तक्रमेण गर्दभेनापि तस्य प्रसङ्गे वह्नावपि हस्तकत्यागात् । यदा तु गत्यन्तर मपि तत्र
प्रकृतासंभवि संभवि, तदा कुतो वन्दीकरणं शरणम् ?

एवं तर्हि प्रत्यक्षानुपलम्भव्यापारः तदतिप्रसङ्गभयादेवाश्रीयते, न तु स एव
समय इति चेत् ? एवं सति भवतैव किमयमतिप्रसङ्गे भरो दत्तो नेति कोशपानं
कर्तव्यम्, यो हि प्रत्यक्षानुपलब्धी विहाय विहायसि वह्निव्यापारनिवृत्त्या धूमनिवृत्तिम्
आदाय व्याप्तिमभिधत्ते, तं प्रति यथा वस्तुमात्रस्यापि तत्र व्यापारोपरमात्तेनापि
व्याप्तिसिद्धिः स्यादित्यतिप्रसङ्गः, तथा योऽपि प्रत्यक्षानुपलब्धीरुद्धूय तद्योग्यपुरुष
विशेषव्यापारविरहेण व्योमनि घटादिकार्यत्वनिवृत्तिं दर्शयित्वा तेन व्याप्तिमस्य
मन्यते, तं प्रति पुरुषमात्रस्यापि तत्र निवृत्त्या तेनापि व्याप्तिः, तथा कार्यान्तरत्वस्यापि
निवृत्त्या तस्यापि स्यादिति व्यक्तमतिप्रसङ्गमात्रमेतत्, न न्याय इति पश्यामः ।

धूमे गर्दभादिव्यभिचारदर्शनान्न वस्तुमात्रेण व्याप्तिरिति युक्तम्, पुरुषमात्रस्य
तु व्यभिचारानुपलब्धेर्नेदमतिप्रसङ्गमात्रोद्भावनं भविष्यति । नैवं, समानन्यायानाम्
एकत्र बाधकदर्शनमन्यत्रापि शङ्कामुत्पादयति । यदि हि विहायसि उभयनिवृत्तिदर्शनं
प्रतिबन्धसाधकं भवेत्, वस्तुधूमयोरपि न बाध्येत, तत्र तु बाध्यमानमन्यत्रापि कथम्
एकान्तावसायसाधनं स्यात् ? न च पक्षीकृते नैव व्यभिचार इत्यपि, न पक्षीकरणं
मन्त्रप्रभावः, किं तु व्याप्तिग्राहकदार्ढ्यम् । तच्च यदि नभसि उभयाभावमात्रम्, तदा
तत्र बाधकाधिगतेरस्तं दार्ढ्यमिति सत्यपि 42a पक्षीकरणव्यभिचाराशङ्का न
निवर्तत इति ।

व्योमास्ति व्यतिरेकभूमिरिति चेद् धूमस्य धूमध्वजाद्
उत्पत्तावपि किं स एव समयो नातिप्रसङ्गोदयात् ।
287
यद्येवं भवतैव किं विनिहितो नातिप्रसङ्गेतर
स्तस्मिन् बाधविलोकनं पुनरिहाप्यारेकमाकर्षति ॥

इति संग्रहः ॥

तस्मात् नाकाशे द्वयनिवृत्त्या व्याप्तिसिद्धिः, सिद्धव्याप्तिकयोस्त्वभावदर्शनं
गृहीतव्याप्तिस्मरणकारणं स्यात् । न च व्याप्तिग्राहकं किञ्चिदुपपद्यत इत्युक्तम् । तस्मात्
अन्वयमात्रभावेऽपि व्यतिरेकाभावादनेकान्त एवेति स्थितम् । वस्तुतस्तु व्यतिरेकवदन्व
योऽप्यस्य दुर्लभ एव । यस्य हि प्रत्यक्षागोचरतया अभावप्रयुक्तः कार्याभाव इति
प्रत्येतुमशक्यं तस्यान्वयो दूरोत्सारित एव, प्रत्यक्षग्राह्यत्वात् तस्य । प्रत्यक्षं हि परिदृश्यमाने
वस्तुनि देशकालविप्रकृष्टमपि स्वप्रवृत्तियोग्यमेवान्तर्भाव्य व्याप्तिमवकल्पयेत्, न स्वभाव
विप्रकृष्टमपीति उक्तप्रायम् । ततश्चान्वयमात्रं गजनिमीलितेनावधीर्य व्यतिरेकाभावेनैव
द्षणमुक्तम् । वस्तुतस्तु नान्वयो न व्यतिरेक इति प्रयत्नवन्मात्रे साध्ये कार्यत्वमसाधा
रणमेवेति वा दर्शयितुमाह,

संशयोऽथवा

इति । प्रत्यक्षादियोग्यापेक्षया साधारणानैकान्तिकम्, चैतन्यमात्रापेक्षया असाधारणम्
इत्यर्थः । ननु शरीरोपाधिबुद्धिकृतं कार्यं सिध्यत् बुद्धिमात्रकृतं सिध्यत्येव, शिंशपाकृतमिव
बृक्षकृतम्, विशेषे सामान्यानपह्नवादिति कथमुच्यतेऽन्वयाभावः ? एवं सति व्यतिरेकोऽपि
तदपेक्षया स्यादिति चेत् ? का नो हानिः, बुद्धिमति कार्यहेतोरन्वयव्यतिरेकवत्त्वाभ्युपग
मादिति ? उक्तमत्र, एवमन्वयव्यतिरेककल्पने जाठरचित्रकादिगतेनापि रूपेण धूमादनुमि
तमग्निं संशयानो नाभिमतैकाग्रचित्तः प्रवर्त्तेतेत्यादि ।

अपि च न तत्र संभवीत्येव प्रत्यक्षेण यत्किञ्चिद्वस्तुनो रूपं कार्यस्य व्यापकम्
अवधार्यते, अपि त्वध्यवसायापेक्षया । अध्यवसायश्च पुरुषेण कृत एव इति बुद्धिमता
वेति विशिष्टविषय एव प्रवर्तते, तादृश्येव पुरुषादिशब्दस्य रूढेः । न तु करादिव्या
पारनिरपेक्षेण चैतन्यमात्रेणेति, चैतन्यमात्रं सदप्युदासीनमन्वयग्रहणकालेऽध्यव
सायस्य विशेषोन्मुखेनैव प्रवृत्तेः, सामान्यशब्दत्वेऽपि वा प्रकृतविशेषमाक्षिप्यैवाग्नि
व्याप्तिवत् । स चाध्यवसायः प्रत्यक्षव्यापारानुसारी तद्योग्यमेव रूपं बहिः कुर्यात्,
न तु तदयोग्यमपि, जाठरादिवत्, तार्णादिवच्च । एवं पुरुषेणापि व्याप्तौ कस्यचित्
288
शरीरोपाधिविधुरस्य बुद्धिमात्रस्य तदयोग्यस्य प्रतिक्षेपः स्यादेव । अप्रतिक्षेपस्तु खर्वादि
भेदस्यैय । अयमेव न्यायः सर्वत्र प्रत्यक्षेणान्वयग्रहणे ।

42b अथाङ्गारसङ्गादगुरुखण्डजनितं धूममुपलब्धवतः प्रत्यक्षयोग्यतया
इन्धनाद्यन्तरेणापि तदन्वयप्रसङ्ग इति चेत् ? तत्किमिदानीं प्रमाणविषयप्रतिनियमम्
अनादृत्य यत्र क्वचित् प्रवृत्तमध्यक्षं येन केनचिदन्वयं प्रत्येत्विति विवक्षितम् ? एवं
सति हेतुमदाभासव्यवस्थाविलोपात् सर्वस्य सर्वसिद्धिरिति प्रतिनियतसाधनान्वेषो
विफलः ।

अथ प्रत्यक्षेण स्वयोग्यमुल्लंध्यापि व्याप्तिर्गृहीतेत्युच्यते ? तदसिद्धम् । यदापि
प्रत्यक्षं स्वप्रवृत्तियोग्येऽपि वस्तुन्यवान्तरभेदापेक्षया सामान्यमुदासयदन्वयं प्रतिपद्यते,
तदा कैव कथा स्वप्रवृत्त्ययोग्यस्यात्यन्तं विजातीयस्य ? न चास्माकं पक्षः प्रत्यक्षयोग्येण
सर्वेण व्याप्तिरिति, किं तु प्रत्यक्षयोग्येणैव तत्कृता व्याप्तिरिति । अन्यथा गर्दभादिभिरपि
धूमकुम्भादेरेवान्वयप्रसङ्गः । किमतः परम् ? कथं पुनरत्रावान्तरभेदापेक्ष एव व्याप्तिग्रहो
न दर्शनयोग्यतामात्रापेक्षः ? विकल्पस्तु वासनाप्रबोधमात्रार्थमपेक्षितप्रत्यक्षादिसन्निधिर
नियतोदयाकारतया न प्रतिनियतं विशेषमावेशयितुमर्हतीति ।

सत्यम्, अतएव व्यतिरेकसाधन्या अनुपलब्धेरवतारः । तत्र यथा वह्नि
पुरुषाभ्यां धूमकुम्भयोरन्वयाध्यवसाये सहायतामनुपलब्धिः प्रतिपद्यते, पूर्वस्थितिरन्यत
उत्पत्तिरन्यत आगमनमिति त्रिधा भिन्नसंभवव्यतिरेकं साधयन्तीतरथानुपयोगात्,
तथा यदि गर्दभान्वये वेदनमात्रान्वये वा प्रतिपद्येत, स्यादेव ताभ्यामपि व्याप्तिः,
नान्यथा, यतो न प्रत्यक्षमात्रं व्याप्तिं प्रतिपद्यते, नाप्यनुपलम्भमात्रं, किं तु प्रत्यक्षानुप
लम्भावन्योन्यसहायाविति निर्णीतं शास्त्रे बहुशः । अस्माभिरपि त्रिकपञ्चकचिन्तायां
किञ्चिदिति ।

न च गर्दभाद्यन्वये तस्याः साहायकमस्ति । एतेन धूमविशेषापेक्षयानुपलम्भ
व्यापाराभावो व्याख्यात इति नैवंवादिनि कश्चित् पर्यनुयोगः । यस्तु प्रत्यक्षगोचरेऽपि
तत्कृतां व्याप्तिमुपवर्णयति तस्य तद्विषय एव व्याप्तिग्रहविरह इति दुःस्था व्यवस्था ।
ततश्च तस्यैवासौ पर्यनुयोगः । तस्याप्यनुपलब्धिव्यापाराभावान्नेति चेत्—न, यतः
प्रत्यक्षयोग्येऽपि तत्कृतव्याप्तिवादिनोऽनुपलम्भव्यापारविरहेऽपि तत्कृतव्याप्तिमिच्छतः
289
कः प्रतिरोद्धा ? यदि ह्यस्य व्रीडा स्यादप्रत्यक्षयोग्य एव तद्व्यापारं कथं वर्णयेत् ?
अथोपादानादिविदा प्रयत्नवता कारणदर्शनादेव गर्दभस्य निरासः, किमत्रानुपलब्ध्या ?

एवं तर्हि दृश्यमानेनैव व्याप्तिमुपवर्णयन् न च दर्शनपथातिक्रान्तेन, न च
शरीरोपाधिं व्यवधूय चैतन्यमात्रमुपलब्धं क्वचित् । यदि च दर्शनबलादेव व्यवस्था
चैतन्यमात्राधिष्ठितं शरीरं कुम्भादि जनयत् दृष्टमेवेति न गर्दभेनान्वयविरोधः, तत्
कथमनुपलब्धि43a प्रतिक्षेपः ? व्यापकगताः सामान्यधर्मा एव व्याप्तौ साधकाः
इतरेषां व्यभिचारदर्शनेनान्यत्र शंकावकाशादेव न गर्दभेनान्वय इति चेत् ? ननु
व्यभिचारदर्शनमिति तदभावेऽपि भावदर्शनमित्यनुपलब्धिव्यापाराभावेऽसाधनत्वम्
उपनीयमानमनुपलब्धेरेव साधनाङ्गनिश्चये व्यापारं परिदीपयति ।

यदि च विशेषे व्यापारशंकाकुलः सामान्यमनुसरति भवान्, उपादानाद्य
भिज्ञमपि विशेषमपहाय चैतन्यमात्रेण गर्दभसाधारणेन सिद्धसाधनयोग्येन ततोऽपि
वा सामान्येन कारणमात्रेण व्याप्तिमभिधत्ताम् । एवं हि सति सर्वथा दूरीकृतः
शंकावकाशः स्यादिति । एतावत्तु सामान्यमवमन्य उपादानाद्यभिज्ञविशेषे स्थितिर्न
तु तदप्यवज्ञाय यथादृष्ट इति किमत्र सामर्थ्यमन्यत्र जाड्यात् ? प्रत्यक्षानुपलम्भवादि
नस्तु यावति यादृशि सामान्ये प्रत्यक्षानुपलम्भव्यापारो न तत्र शंका, शंकावकाशिनि
च न व्यापार इति नासौ क्वचन स्वयमिच्छया व्याप्तिमुपनयत्यपनयति वा प्रमाणेनैव
समर्पणादिति न दोषः ।

ननु सोऽपि हेतुमात्रकृतं वा कार्यग्रामं ब्रुवन् प्रत्यक्षयोग्येऽपि प्रत्यक्षव्यापारोप
लम्भं किं न पश्यति ? पश्यत्येव विपर्ययबाधकादागमाच्च तस्य तदाभ्युपगमात् ।
प्रत्यक्षानुपलम्भं तु शरीरविशेषाधिक एव चेतसि स प्रमाणयति । इच्छायामपि
करादिव्यापारोपरमे कार्याभावात् तद्द्वारेणैव कुलालादिव्यपदेशविषयस्य समुदायस्य
प्रत्यक्षत्वव्यवहारात् । न त्वियं गतिः प्रयत्नसचिवचित्तमात्रे । तदाप्यनुमानादन्वयः
प्रत्येष्यते । न च प्रत्यक्षस्यैव कश्चिदनुरोधः । उपलम्भानुपलम्भाभ्यामन्वयव्यतिरेक
निश्चयः कर्तव्यः । स चोपलम्भः प्रत्यक्षरूपोऽनुमानरूपो वेति नात्र निर्बन्धः ।

अत्र चिन्त्यते । किं तदेव शरीरोपाधिकं चित्तं प्रयत्नवच्चित्तमात्रशब्देनाभि
मतम्, उतान्यत् ? तत्त्वे किमनुमानेन, प्रत्यक्षसिद्धौ विवादाभावात् । तेन चान्वय
व्यतिरेकौ सिद्धौ कार्यमात्रेण च तद्व्यभिचारो व्यक्तः । अन्यत्वे लिङ्गाभावदोषः,
290
भाषणादेः कार्यस्य शरीरिणैव चरितार्थत्वात् । न च तेनानुमितेनापि व्याप्तिः स्वी
क्रियते, व्यतिरेकानिश्चयात् पूर्ववत् । एवं तर्हि बर्हिषापि धूमस्य व्याप्तिर्न देशकाला
वस्थानियतेन, किं तु वह्निमात्रेण । तच्च दृश्यमानादन्येनैवेति विकल्पे व्यभिचारादि
दोषः साधारण इति तादुग्विशेषविरहिणा सामान्येन व्याप्तिर्वक्तव्या ।

तथेहापीति चेत् ? एवमपि जाठरादिगतेनापि रूपेण व्याप्तिप्रसङ्गो धूमस्य ।
तस्मान्न सामान्यमित्येव व्याप्तावधिक्रियते, नापि विशेष इत्येव प्रतिक्षिप्यते, 43b
धूमानुमानस्यैवोच्छेदात्, अभिमते शिखनि प्रवृत्तिसन्देहात् । ततो यदि न स्वेच्छैव
संग्रहपरिच्छेदसाधनी, तदा प्रमाणव्यापारमन्विष्य व्यवस्थाप्रक्रमे किञ्चित् सामान्यं
स्वीकारप्रवृत्तेनापि प्रत्यक्षेण प्रतिक्षिप्तमर्थादेषितव्यम्, यद्विशेषातिक्रमेण नास्यावतारः ।
यथा ज्वलद्भासुराकार पातिक्रमे धूमव्याप्तिग्राहिणः । किञ्चित्तु प्रत्यक्षस्वीकृतम्
अप्यनुपलब्धिः प्रतिक्षिपति, पीठरादिवत् सामर्थ्यात् ।

सा हि दहनाभावे कार्याभिमताभावं साधयन्ती दहनभावप्रयुक्ततद्भावविभा
वनादयोगव्यवच्छेदेन तत्कार्यतासाधनप्रवृत्ताप्यन्यस्य हेतुतां साधयत्येव, यदभावे
स्वयं न वर्तते । अनुपलम्भपूर्वके तु प्रत्यक्षे प्राग्भावादिबाधनप्रवृत्तयानुपलब्ध्यानेकवस्तु
रूपसत्त्वाभावेऽभावसिद्धौ यदेकवस्तुस्वभावसन्निधौ सन्निधिरध्यक्षेण प्रतीयते प्रागपि
तदभावप्रयुक्ताभावविभावनात् तद्धेतुभावसाधने यदप्रवृत्तियोग्यतया प्रतिक्षिप्तम्
अध्यक्षेण तत्प्रतिक्षिप्तमेव ।

ततो न जाठरादेरन्वयः । नापि कालदेशदशाभेदभिन्नस्वभावप्रतिक्षेपः,
सर्वस्य प्रत्यक्षेण स्वजन्मयोग्यतया स्वीकारात् । नाप्यनुपलब्ध्या, सा ह्यतादृक्स्वभावा
भावेऽभवन्ती तद्विजातीयहेतुतां प्रतिक्षिपतीति युक्तम्, न तु तस्यैव, अन्यथा तदा
श्रयणवैयर्थ्यात् । ननु देशादिभिन्नस्वभावाभावेऽप्ययं धूमो दृष्टः, न देशादिभिन्नस्या
प्येकाकारप्रत्यवमर्शप्रत्ययेन परिदृश्यमानरूपेण सहैकीकरणात्, दर्शनायोग्यस्वभावाद्
अन्यत्र । अतएव वह्निमात्रशब्दाभिधेयं तदेव परिदृश्यमानयोग्याद्भेदाकृष्टावप्यभेदाव
भासात् ।

ननु देशादिविप्रकृष्टमप्यदर्शनयोग्यमेव । सत्यं, केवलं कदाचित् क्वचित् । स्व
भावविप्रकृष्टं तु सदेत्यत्यन्तविजातीयतया स्वीकारपरिहारयोर्भेदेन वृत्तिर्न विरुध्यते ।
ततो यथानुमानवादिना सामान्यमनुसरणीयमव्याप्तिमसंभवं वा परिहर्तु, तथा
291
दृश्यविशेषापेक्षयातिरिक्तसामान्यमपि परिहर्तव्यमतिव्याप्तिपरिहाराय । एवं सति यथा
दर्शनायोग्यवह्निसामान्यपरिहारेण तद्योग्यावान्तरसामान्येन व्याप्तिरेकत्वव्यवस्था च
युक्ता, न प्रयत्नवन्मात्रेण, प्रत्यक्षप्रतिक्षिप्तत्वादिति ।

तत्र व्यामोहात् प्रमाणान्तरेणान्वयमिच्छन् तत्त्वान्यत्वाभ्यां पर्यनुयुज्यते ।
दहने तु तत्पक्षेणैव समाधिरित्युक्तम् । तस्मात् प्रत्यक्षानुपलम्भाभ्यां व्याप्तिजिघृक्षायां
44a तद्योग्यसामान्यापेक्षाया घटविटपादौ दृष्टान्त इष्टस्य सिद्धिरसिद्धिश्चेति साधारणा
नैकान्तिकत्वं कार्यस्य । चैतन्यमात्रेण तु तदयोग्येनान्वयव्यतिरेकयोरेकस्याप्यनिश्चयात्
सन्दिग्धान्वयव्यतिरेकत्वं वक्तुं युक्तमुक्तम्,

संशयोऽथवेति ।

सिद्ध्यसिद्ध्योरिति प्रकरणात् । ताभ्यां च भावाभावावुक्तौ । यथाह—उपलब्धिरेव
सत्ता अनुपलब्धिरसत्तेति । ततः कार्यत्वादिसाधनवति धर्मिणि दृष्टान्ते साध्यत्वेनेष्टस्य
प्रयत्नवन्मात्रेण सत्त्वासत्त्वसन्देहात्, तदधिष्ठानानधिष्ठानाभ्यां च सर्वसंग्रहादेकतान्वय
व्यतिरेकानुपपत्तेर्युक्तमसाधारणानैकान्तिकत्वम् ।

ननु तथाप्यनेकान्तोऽप्यस्तु, अन्वयमात्रं किमिति प्रतिक्षिप्यते, कार्योत्पत्तौ
बुद्धेरेव व्यापारदर्शनात् ? जाठरसाधारणेनापि रूपेण तर्हि धूमेऽन्वयप्रसङ्गः, दहन
व्यापारदर्शनात् । ततश्च तदपेक्षो व्यतिरेकोऽपि स्यादिति प्राचीनदोषः । प्रत्यक्षप्रतिक्षेपस्तु
साधारणः ।

ननु जाठराद्यभावेऽपि धूमभावान्न प्राचीनदोषः, सत्यप्यन्वय इति चेत् ? कैलास
करणकौशलविकलेनापि कलसस्य करणं किं न कीर्त्त्यते ? अथ करणकौशलसामान्ये
नान्वयोऽत्र ? तत्रापि दाहकमात्रेणेति न व्यक्त्युपक्षेपेण किञ्चित् । जात्यपेक्षया तु
तदान्यदापीति कथं तदभावेऽपि धूमभावः ? अथ दाहकत्वमात्रं परिदृष्टविशेषाद् भिन्नां
जातिमास्थाय व्यभिचार उच्यते, तदा तदपेक्षयान्वयोऽपि कुतः, प्रत्यक्षेण विशिष्टाया
एव जातेरधिगमात् ? अन्वये वा पुनर्व्यभिचारानुपपत्तेरिति ।

यत्पुनः सजातीयेन प्रत्यक्षतः प्रतिबन्धनिश्चयमाशंक्य, न हि सर्वत्र समान
जातिरनुमीयते, प्रत्यक्षश्च यस्मादसमानजातिः, अप्रत्यक्षश्च रूपादिव्यक्तिभिरनुमीयते
चक्षुरादिग्रामः, तथा चन्द्रमसः पृथिव्याश्च परभागाधोभागावित्युक्तम्, तदपि
पापीयः । तथाहि न तावद् व्याप्तिशून्यमनुमानम्, व्याप्तिश्च सामान्येन सामान्यस्य
292
भवन्ती कथमसमानानुमानमनुसहेत ? तथा च सा द्विधैव प्रत्यक्षानुपलम्भतः विपर्यय
बाधकाद् वा । उभयथापि दृष्टान्तदृष्टसजातीयस्यैवानुमानम् । अन्यथान्यजातीयेन धर्मेण
व्याप्तिमुपादायान्यजातीयमनुमिनोतीति महती प्रेक्षा ।

सामान्यतो दृष्टानुमानेऽपि हि यदेव गतिसामान्यमन्यस्थानप्राप्तिनिबन्धनमुपलब्धम्,
तदेवाधिकरणान्तरे निश्चीयत इति कथं विजातीयधर्मानुमानम् ? अथाधारभेदापेक्षया
सामर्थ्यसाध्यमवान्तरभेदमभिप्रेत्योच्यते, तदनुक्तसमम् । न हि कश्चित् अनुमानवादो
तन्मात्रेण विशेषमनिच्छन् 44b फलिनमनुमानं समर्थयितुमीशः । यदि चेश्वरानुमानेऽपि
तादृशो व्याप्तिः स्यात्, तन्मात्रविशेषसिद्ध्या चेष्टसिद्धिः स्यात्, कस्तत्र मत्सरमाचरेत् ?
न च तन्मात्रविशेषापेक्षया न हि सर्वत्र समानजातिरनुमीयत इति वक्तुं युक्तम्,
क्वचिदसमानजात्यनुमानेऽपि तथोच्यते, तन्मात्रविशेषश्च सर्वत्रानुमानेऽस्ति । विशेषतो
दृष्टस्य सामान्येऽपि तदेव निश्चीयत इति तदपेक्षया न सर्वत्र तदेवानुमीयत इति वक्तव्यम्,
भेदाधिष्ठानत्वात् समानजातिचिन्तायाः ।

तत् पुनरप्रकृतमेव । स तु न सर्वः प्रत्यक्षोऽनुमीयत इति । यदि प्रकृतमग्निवत्
प्रतिबन्धग्रहे प्रमाणमधिकृत्योच्यते, तदा प्रत्यक्षस्यैव सर्वत्रानुमानम् अन्यत्रापदिष्टप्रमाण
प्रवृत्तेः । अथ विपर्ययबाधकापेक्षया, तदा न वक्तव्यं न कश्चिद्विशेषोऽग्निसाधनात्
ईश्वरानुमानस्येति । अनित्यसाधनादिति तु वक्तुमुचितम् । अथ कार्यहेतुतामात्रेणैवम्
उच्यते, तदा कार्यकारणभावः प्रत्यक्षानुपलम्भसाधन एवेति स एव दोषः । न च
विपर्ययबाधकं किञ्चिदस्तीति चर्चितमेव । देशाद्यनियमप्रसङ्गश्च हेतुमात्रापत्तिं साधय
त्यपि । तस्मात् प्रकृतप्रमेयानवगाहनात् प्लवत एतत् न सर्वः प्रत्यक्षोऽनुमीयत इति ।

अनुमानकालापेक्षया तु सर्वः परोक्ष एवानुमीयते, न च तत्र काचिद् विमतिः
इत्यनुक्तसमम् । इन्द्रियं तु न साक्षाद् बुद्धेरनुमातुं शक्यम्, प्रतिबन्धाग्रहणात् । बुद्धिकार्यं
तु केषुचित् सत्स्वभावाभाववत्तदतिरिक्तकारणसापेक्षतामावहतीति तादृशीन्द्रियघोषणा ।
तत्राङ्कुरादिषु दृष्टजातीयमेव सापेक्षत्वं यथा साध्यते, तथा परभागाधोभागावपि
घटादिकार्येषु । अर्वागैकसामग्रीप्रतिबद्धौ सामान्यतो दृष्टावेवानुमीयेते इति साध्यशून्य
मुदाहरणमपि इत्यलं बहुना । अथवा कारणसामान्येन कार्यसामान्यं व्याप्यते, कारण
विशेषेण तु कार्यविशेष एवेति न्यायः । अध्यवसायमात्रतो वा कारणसामान्येन कार्यविशेष
इति प्रवादः । तत्रायं कारणविशेषेण बुद्धिमता कार्यसामान्यं व्याप्तमितिब्रुवाणः
प्रमाणावष्टम्भेन नाम प्रसिद्धिमुल्लङ्घयेत् ।

293

तच्च प्रमाणं व्याप्तिसाधकं द्विविधमेव प्रत्यक्षानुपलम्भं वा, विपर्ययबाधकं वा,
अनयोः प्रत्यक्षानुमानस्वभावत्वात्, अन्यतो निश्चयायोगात् । तत्र तावदुक्तक्रमेण
कार्यसामान्यस्य,

नो भेदेन विपक्षबाधकवशाद् व्याप्तिः समस्तस्य च
प्रत्यक्षानुपलम्भतो न तदतज्जातीयभेदस्पृशः ।
प्राग्भावादिनिषेधपूर्वकतया धूमादिवज्जन्मधी
रन्वेतीदृशमीदृशादिति यतः सामान्यभेदद्वयम् ॥

इदमुपलब्धिलक्षणप्राप्तमनुपलब्धमस्योपलम्भ उपलभ्यत इत्येवं 45a हि
प्रत्यक्षानुपलम्भयोर्व्याप्तिग्रहणक्रमः । तत्रेदमित्येकजातीयतया एकप्रत्यवमर्शप्रतिभासि
धूमादिकमनेककार्यजात्यन्तरव्युदासेनानेककारणजात्यन्तरव्युदासेन चास्येति वह्न्यादेः
इत्यर्थः । ततः कार्यकारणयोः प्रत्येकं तज्जातीयेतरयोरितरेतरतो भेदे परामर्शपूर्विका
प्रवृत्तिः, अन्यथा सामर्थ्यवैयर्थ्याभ्यामनुपयोगात् ।

तथा ह्यकार्यराशिव्यवच्छेदेन वा, कार्यान्तरव्यवच्छेदेन वा इदमेतद् भावा
भावानुविधायीत्यवधार्येत ? आद्ये पक्षे एतानि वस्तुनि एतन्नियतानि इत्ययमर्थो
नैतद्वस्त्विति, एकाकारविरहादेकाकारप्रत्यवमर्शानुपपत्तेः । ननु कार्यत्वादिना सामान्येन
इदमिति कार्यं सन्निवेशो वेत्यादि वक्तुं शक्तेः, असिद्धमेतदिति चेत् ? उच्यते, इह
भावाभावविधानबुद्धिर्द्विधा संभवति, धर्मिविषया धर्मविषया च, कार्यस्य निर्वर्त्त्य
विकार्यभेदेन द्वैविध्यात् । तत्राद्या सर्वात्मनोत्पत्तिनिश्चयमुपादाय धर्मिणमेव विशिष्टा
कारक्रोडीकृतं कालदेशादिभेदभिन्नमपि स्वभावमन्तर्भाव्यैकप्रत्यवमर्शाद् विषयी
करोतीति तद्विषयेत्युच्यते । स हि संभविनमप्यतदाकारभेदविरोधिनं धर्ममुदासयति,
धूमादिषु धवलतादिवत् ।

यत्र पुनरवस्थितस्यैव धर्मिणो धर्मान्तरमुदयमासादयति, तत्र धर्ममात्रस्यैव
हेतुभिरन्वयव्यतिरेकाविति धर्मविषयेत्युच्यते । सा पुनराकारमेवोदासयन्ती धर्ममात्रम्
अधिष्ठानीकरोति रागादिवत् । न ह्याकारक्रियादिवैजात्यमत्यन्तमनुभवन्तः पटकूटादयः
साधारणरागयोगिनो गृहीतसामर्थ्यरागद्रव्यान्तरयोगमनुमाप्य तृप्यन्ति । प्रथमा
त्वाकारशरणैव सर्वात्मनोत्पत्तेः । यथैव हि विशिष्टाकारोपरक्तं वस्तु कुतश्चिदुपजायते
तथैव तद्वलोत्पन्नेनेन्द्रिज्ञानेनानुभूयानन्तरं विकल्पद्वारेण व्यवहारगोचरीक्रियत इति
294
कथमाकारपरिहारः ? अतएव धूमकुम्भादिव्यक्तिरेकत्रानुपलभ्यप्रभवा उपलभमानस्य
अन्यत्र तदैव यद्युक्तिभेदेन व्याप्तिसिद्धिस्तत्रैव तत्कारणावसायो जायते, नान्यत्र
व्यभिचारदर्शनादर्शनमपेक्ष्यापि । अनन्तरं त्वाकारमुदासयेत् केवलं व्यवस्थिते धर्मिणि
धर्ममात्रोदयदर्शिनः ।

न च व्यवस्थिते कुम्भादौ कार्यत्वादिधर्ममात्रोत्पत्तिरीक्ष्यते, क्षितिधरादौ
वाभ्युपेयते, येनाकारमनादृत्य रागवत्तन्मात्रमेव हेतुमनुमापयेत् । सन्निवेशस्तर्हि स्थित
एव तदात्मनि कुम्भकारादिति चेत्—न, द्रागपि संस्थानविनाकृताया मृदोऽनुपलब्धेः ।
अथ तादृशस्याभाव एव पूर्व यः कुम्भप्रज्ञप्तिगोचर इति चेत् ? तदेव संस्थानं तर्हि
पुरुषादिति न तावन्मात्रव्याप्तिः,

तथापि यदि संस्थानसामान्ये पुरुषक्रिया ।
हरिद्राद्रव्ययोगोऽपि 45b वर्णमात्रविधायकः ॥

ननु तथापि न पूर्वसिद्धदर्शनमित्येव व्यक्त्यन्तरे गृह्यमाणाया व्याप्तेर्व्याघातः,
तद्वलात्त्वनुमानमेव तत्रेत्यनन्तरमेव समर्थितम् । न च तावता वर्णमात्रं कुसुम्भसंभव
साधनसाधु, व्यभिचारालम्बनं तु दुर्बलमिति किमत्र प्राप्तम् ?

गुणेऽपि द्रव्यवत् तस्मात् सजातीयपरिग्रहः ।
तत्पूर्वसिद्धेऽप्यनुमा न वर्णात् कुङ्कुमस्य च ॥

तन्नियतविशेषापरिग्रहे हि रागादपि कुतः कुङ्कुमानुमा ? दवीयसी तु वर्ण
मात्रात् । वर्णवच्च संस्थानस्यापि विचित्रमेव वैजात्यमनुभवविषयः । तदनयोरेकत्र
जातिनियमेन व्याप्तिव्यवस्थानमनियमेन वा व्यक्तौ व्यभिचारो नैकनियतः । तस्माद्
वर्णवदनेकजातिनि संस्थानेऽपि तत्त्वं सामान्यमनुवर्तमानमपि व्याप्तिग्रहाद् बहिर्भूतम्
एव । एवमर्थक्रियापि पूर्वमसति वस्तुनि पुरुषादिति वक्तुमशक्यम् । सर्वसामर्थ्य
विरहिणः प्रागभावप्रसङ्गेनापूर्वोत्पत्तिप्राप्तेरिति विशिष्टे वार्थक्रियापि पुरुषान्वयव्यति
रेकानुविधायिनीति सिद्धम् ।

तस्मादेवंविधा धर्मविषयापि व्याप्तिबुद्धिर्न सामान्यमनुधावति । यदा तु
कार्यहेत्वधिकारेण धर्मिविषयैव, तदा यथापरिदृष्टाकारार्थक्रियासामान्यं समाश्रित्य
यथा कारणे प्रतिनियतस्वरूपसामान्येन व्यापकत्वावसायिनी, तथा कार्येऽपि प्रति
नियताकारसामान्यपुरस्कारेणैव व्याप्यत्वावसायिनी समक्षबुद्धिरिति न सन्देहः ।
295
अन्यथा कार्यवत् कारणेऽपि बुद्धिमदादिविशेषव्युदासेन प्रवृत्तिमती मतिः किमभिमतम्
उपनयेत् ? तस्मात् कारणवत् कार्येऽपि तथाभूताकारविशेषमेवमयमवसातुमर्हति ।

तत्रेदानीं तदाकारबहिर्भूतेषु भूतलादिषु सदपि कार्यत्वमभिधीयमानमनुपयुक्त
मेव, धर्मविषयहेतुफलग्राहिप्रत्यक्षव्यापारापेक्षया धर्ममात्रसाम्यस्याकिञ्चित्करत्वात् ।
न हि तदेवाकारार्थक्रियादिरूपं तत्साम्योन्मीलनहेतुर्वा । तदनेन साम्यं न किञ्चिदर्थ
पुष्णाति अगौणकार्यशब्दप्रवृत्तेरन्यत्र । स हि सङ्कल्पनिवेशिन्युदयार्थमपेक्षितपर
व्यापारमात्रे अर्थे अकारादिकमुदास्य कृतसमय इति न तस्य व्याघातः । उपपत्त्यन्त
रेण व्यापकतया यः प्रतीतो धर्मः तत्रैव नाशवत्प्रत्यक्षव्यापार एव तु स्वोदयसमय
परिस्फुरदाकारादिसादृश्यमपेक्षते, देशादिकृतभेदे तु वैसदृश्यावसाय इति न
विरोधः ।

तस्मादेककारणविरहात् प्रत्येकं प्रत्यक्षानुपलम्भापेक्षायामेतानि वस्तूनि
एतत्कारणानुगामीनीत्यनेनैवाकारेण व्याप्तिनिश्चयः कार्यः । केवलमद्यापि न व्यक्ति
कार्त्स्न्येनोपयोग इति सर्वकार्यप्रकारेष्वेकैकविषयोऽवतिष्ठते । स 46a चाशक्यः
क्रमयौगपद्याभ्यामयोगात् । तथा हि न तावत् सकृदेव तेषामन्वयः, सर्वप्रकारोपनिपाते
दर्शनस्य द्रष्टुरेवान्तर्धानप्राप्तेः । व्यतिरेको वा शक्यनिश्चयः; अशक्यपरिहारत्वात्
केषाञ्चिदाधारालोकशरीरादीनाम् ।

नाप्येकेन नरायुषा क्षममिदं सर्वप्रकारेक्षणं
कार्यस्यान्तवियोगतः कतिपयापेक्षासु कार्त्स्न्यं कुतः ?

न खलु भूयसोऽपि भागस्याभिविधिबोधे निर्वृत्तिः, न हि तदपि यद्यत् कार्यं तत्तदेवम्
इति शक्यमभिधातुम्, एतावदिति तु स्यात् ।

यत्पुनरेकत्र प्रवृत्तो विचारः सर्वभावांस्तथाभावे व्यवस्थापयतीत्युच्यते,
तत्साधारणाकारप्रवृत्तिमधिकृत्याकृत्यादिव्युदासेन प्रमाणान्तरावलम्बनात् । प्रत्यक्ष
व्यापार एव ह्येकजातिग्रहनियम उक्तः । ननु तत्राप्यवान्तरानेकभेदसंभवादयमेवम्
इत्यभिधातुमशक्तेरनाश्वासः । अत्र वा भेदतिरस्कारेण धूमादिजात्यन्तरमवलम्ब्य
संव्यवहारे कार्यतामाश्रित्य जात्यन्तरेष्वपि कीदृशो दोष इति चेत् ? न वयं स्वेच्छया
कञ्चिद्भेदं तिरस्कुर्मः, पुरस्कुर्मो वा कामपि जातिम् । अध्यक्षपूर्वकस्तु संकल्पो यथा
अर्थानुपस्थापयति भेदेनाभेदेन वा, तथा हेतुफलभावव्यवहारमवतरामः । स तु
296
प्रकृतिविशेषमासाद्य यदि सूक्ष्मस्थूलभावेन भेदेष्वभिभूतिसामर्थ्यासामर्थ्याभ्यां भिनत्ति
वृत्तिम्, किमत्र कैश्चित्कर्तव्यं2475 तद्विवर्तस्तु चिन्त्यः । तत्र,

धूमोऽवान्तरभेदवत्यपि यथा जात्यन्तरापोहितं
सारूप्यं विषयीकरोति हृदयं किं कार्यमात्रे तथा ॥

एकसंस्थानाद्यनुगमाननुगमयोः, प्रत्यात्मवेद्यत्वात् नापरमत्र प्रार्थ्यते निर्णय
निबन्धनम्, अन्यथा च व्यपदेशार्थक्रियाविनियोगादिसंकरप्रसङ्गः । तस्मान्न क्वचित्
कारणे सर्वकार्यप्रकारणां क्रमेण यौगपद्येन वा अध्यक्षानुपलम्भसंभवा व्याप्तिरुप
पादयितुं शक्येति किमाभ्याम् ? अत एवंमुखेन सर्वकार्यव्याप्तिवादिनः स्वाभिप्राय
निवेदनमात्रमेतद्, वर्त्मनि स्थाणूपदेशघोषणवत् । तथा च सति इच्छामात्रं साधनम्
अस्त्विति स्फुटमनयोरपार्थकत्वम् । तस्मादाभ्यामत इदमिति मतिः कार्यान्तरव्यव
च्छेदेनैव भवन्ती न कार्यमात्रगोचरीकरणसंवादमासादयति । ततो निश्चयमुपादानादि
विदोऽपनुदन्नाह—

संशयोऽथवेति ॥
परेष्टसिद्धिर्न परस्य बाधने प्रसाधने वेदनयत्नमात्रयोः ।
अनन्वयोऽभीष्टविशेषसाधने विपक्षसन्देहसहं तु साधनम् ॥
साध्ये च दृश्ये व्यभिचार एव दृश्यं न चेन्न व्यतिरेकसिद्धिः ।
न चान्वयोऽपि व्यतिरेकवद् वा व्याप्तिर्विशेषेण न चेतरस्य ॥
॥ द्वितीयः खण्डः ॥
  1. केचिदिति मातृकायाम् ।