346
व्यवहारे तथा प्रतिभासाध्यवसायाभ्यामन्यदधिकं वा किञ्चित् निमित्तमस्ति, तन्मात्रतोऽ
प्रवृत्तिप्रसङ्गात् । अर्थक्रियासंवादोऽपि हि प्रथमायां प्रवृत्तौ गवेष्यते । अभ्यासवस्तु
तन्मात्रनिबन्धन एवासौ व्यवहारः । प्रस्तुते तु भेदव्यवहारे सर्वत्र एवानादिकालिकाभ्यास
पाटवभृतो लक्ष्यन्ते । उक्तं हि,

बालोऽपि हि
2536

इत्यादि ।

तस्माद् व्यवहारप्रगल्भस्य तथा प्रतीतिमात्रप्रतिबद्धस्तथाव्यवहारः । तस्मिन्
साध्ये तथा प्रतीयमानत्वं तदन्यानपेक्षत्वेन व्याप्यते । यदि च क्वचित् तथा प्रतीतावपि
तथा व्यबहारविरहः स्यात्, तदा तदन्यापेक्षं स्यादिति साध्यस्य तद्व्यवहारयोग्यत्वस्य
अभावे व्यापकविरुद्धोपलब्ध्या अवधूयमानं तथा प्रतीयमानत्वमपेतबाधके विषये
तथा व्यवस्थायोग्यतयैव व्याप्यत इति व्याप्तिसिद्धेः सन्दिग्धविपक्षव्यावृत्तिकत्वमपि
नोपन्यस्तस्य हेतोरन्तिकमुपसर्पतीति सिद्धमध्यक्षविषयस्यापि ज्ञानज्ञेयभेदस्योक्तानुमान
व्यवहार्यत्वमहार्यमिति ।

अत्रोच्यते । किमिदं विज्ञानं नाम यतो भेदेन प्रतीतिः तथा व्यवहारं साधयेत् ?
यदि हि ज्ञायतेऽनेनेति ज्ञानं जानातीति वा उभयथापि ज्ञेयापेक्षं लक्षणमेतत् । न च
बाह्यापलापिनो ज्ञेयं नाम किञ्चिदस्ति सिद्धम्, यतस्तदधिगतिसाधनं ज्ञानं स्यात् । तथा
हि, इदं ज्ञानमिदं ज्ञेयमिति व्यवहारो व्यापारविशेषकृतो वा स्यात् द्वैतवादिनो
जातिनियतो वा ? प्रथमपक्षे ज्ञानस्य वा ज्ञेये ज्ञेयस्य वा ज्ञाने व्यापारः, परस्परं वोभयोः ?
अत्रापि प्रथमपक्षे निर्वर्तको विकारको वेति विकल्पाः ।

तत्र न तावत् ज्ञेये ज्ञानव्यापारो निर्वर्तकः शक्योऽभिधातुम्, अदृश्यविषय
व्यालोपप्रसङ्गात् । न च तथैवाभ्युपगमो युक्तः, तदैव केनचित् दृष्टेः । तज्ज्ञानेन
निर्वर्तनाभ्युपगमे च परोक्षस्यापि स्थितेरनपह्नवः । स च तेन पश्चाद् दृश्यमानः
तज्ज्ञानस्यैव निर्वर्तको जात इति न विषयः स्यात् । स न तस्य दृश्यः तज्ज्ञानजन्यस्त्वन्य
एवेति चेत् ? एकस्थानानुपपत्तिः । अप्रतिघत्वे प्रकाशरूपस्य प्रत्यात्मवेद्यस्य परा
गोचरस्य विज्ञानरूपतैव मुखान्तरेण समर्थिता स्यात् । नीलरूपत्वान्नैवमिति चेत् ?