105b 2576 विदेव किं नास्ति किमस्तु न स्वयं
प्रमेयहत्याथ कथं प्रवेदनम् ।
हतिः स्ववित्तौ परवेदनेऽपि वा
समस्तमेतन्न समस्ति निर्णये ॥

तथा हि,
संवित्तिर्मम नेति न प्रथयितुं शक्यं विभिन्नैर्मृदो
नापीयं परतः क्वचिन्न च परिस्फूर्तावपीदं न सत् ।
न स्फूर्तौ स्वयमेव सत्यमिति चेदन्येन वित्तौ कुतः
सत्त्वं नोभयथापि चेति गदितुं चैतत्स्वतोऽसांप्रतम् ॥

अयमर्थः,

संवित्तिरेव नास्तीति ब्रूयान्निश्चेतनोऽपि किम् ।
न वक्ता चेन्न च श्रोता स्वनिर्भासस्तथाप्ययम् ॥

परतस्तु वेदनमिति निरस्तमन्यत्रेत्यास्तां तावत् । अथ न सर्वथा वार्यते
स्वसंवित्तिः, किं तु सांवृतीत्युच्यते, तर्हि सर्वथाप्रतिक्षेपाभावे बाधकाधीनमस्याः सांवृत
त्वम् । बाधा च प्रमेयाद् भेदेनानुभवाद् वा । प्रमेयबाधयैव न तस्याः स्थितिरिति ।
तत्र,

भेदेनानुभवे भेदात् स्वानुभूतिः कथं भवेत् ।
प्रमेयबाधा तु पुनः शक्रेणापि न शक्यते ॥
  1. Misnumbered as 105a in #thakur87Thakur 1987.