तृतीयः परिच्छेदः

यद्येवं धर्मतामात्रं पृथक्कृत्य विमुच्यते ।
बुद्धो वा धर्म एवेति द्वयाभावः स्ववित्कथम् ॥ १ ॥
तद्बोधा129a दुच्यते बुद्धो नोज्ज्वलैर्लक्षणादिभिः ।
न तदालम्बनं हित्वा सर्वशुक्लगुणप्रियः ॥ २ ॥
तद्वोधः सर्वबुद्धानां सामान्यो नापरस्य सः ।
तत्स्मृतिस्तायिनां पूजा तन्निश्चयफले प्रमे ॥ ३ ॥
तस्मात् स्वलक्षणं बुद्धो धर्मः सामान्यलक्षणम् ।
तत्प्राधान्ये न बुद्धत्वं भिन्नो राशिरतः कुतः ॥ ४ ॥
अत एवोच्यते बुद्धो धर्म एवेति तद्यथा ।
प्रताप एव राजेति तादात्म्यं तत्त्वतस्तयोः ॥ ५ ॥
यच्चोक्तमाद्याचार्येण बुद्धशब्दस्य गोचरः ।
विशुद्धश्चित्तसन्तानो धर्माख्यापि महामुनेः ॥ ६ ॥
तत्रापि धर्मकायस्य साक्षात्कारेण स ध्वनिः ।
धर्म एव जिनो यद्वज्जिन एव तथा 2614स च ॥ ७ ॥
आर्येशनीतिविवृतेररूप्यनाभासवर्णनारीतेः ।
द्वयमात्रहानिगीतेरपि शङ्का नास्त्यनाकृतिनः ॥ ८ ॥
आलयज्ञानयत्नेऽपि न तदेव निराकृति ।
तस्य व्यावृत्तिरर्हत्त्वे कथ्यते कथमन्यथा ॥ ९ ॥
व्यावृत्तिश्चेद् दशाभेदोऽनाभासः साध्यनिर्धुतिः ।
अकनिष्ठे हि संबोधिरुक्तानारूप्यधातुजा ॥ १० ॥
टीकाप्याहागमे क्वापि नोक्ता नाकारधीरिति ।
ख्याताचार्यस्थिरमतेरागमस्यानुसारिणी ॥ ११ ॥
544
तन्निराकारमेवोक्तमिति चेन्निश्चयो हतः ।
किमन्यचिन्तयास्माकं प्रकृतस्य प्रसाधनात् ॥ १२ ॥
क्वापि व्यवस्था कथमप्यागमे क्रियतां जिनैः ।
आद्याचार्येण वा सर्वमिदानीं प्रस्तुतं न तत् ॥ १३ ॥
उपेक्षाकारसद्भावान्नारूप्येऽप्याकृतिक्षतिः ।
धियो विवर्तो ह्याकारः किंचिद्रूपस्य वा स्थितेः ॥ १४ ॥
धीजातेर्व्यक्तिराकारो यदि नाकनिभा न किम् ।
किं वाधुना व्यवच्छेद्यं न किञ्चिद् बुद्धिसंभवे ॥ १५ ॥
नीलादौ तु तदाकारादन्या बुद्धिर्निषिध्यते ।
स्वप्नेऽप्यदर्शनाद् धीस्तु तथा काचित् परान्यथा ॥ १६ ॥
यद् यथा भासते ज्ञानं तत्तथैव व्यवस्थितम् ।
तत्तद्रूपाङ्गमिच्छा चेत् पात्रमस्या निवेदितम् ॥ १७ ॥
मोहारूपविरागेणारूप्यधातुः शमाशया ।
तस्मान्नीलादिरात्मैव बुद्धीनां द्वयमेव न ॥ १८ ॥
प्रसज्यपर्युदासाभ्यां सर्वाभावस्थितिर्द्विधा ।
पर्युदासो द्वयस्यात्र धर्मिरूपं स्वलक्षणम् ॥ १९ ॥
तस्य वस्तुतया तावत् स्ववित्तिर्न विरुध्यते ।
धर्मिप्रत्यक्षमेवान्याभावेऽपि विहिता मितिः ॥ २० ॥
भूतले कलसाभावो भूतलाध्यक्षसाधनः ।
संभोगे च द्वयाभावः संभोगाध्यक्षसाधनः ॥ २१ ॥
आर्योऽन्यस्तदपेक्ष्येदमद्वयाय नमोऽस्तु ते ।
न रक्तो हरिन्माञ्जिष्ठ इत्यादिकमवर्णयत् ॥ २२ ॥
प्रत्यात्मवेद्यमित्येवं स्वविच्च स्वगिरोदिता ।
तत्पर्युदस्तेऽपि समं कल्पेऽप्यवसिताश्रयात् ॥ २३ ॥
545
अवसेयस्य निष्ठापि संभोगेन स्फुटीकृता ।
अतएव च साकारस्वीकारस्तैः प्रकाशितः ॥ २४ ॥
धर्मो नोत्पद्यते कश्चिन्नापि कश्चिन्निरुध्यते ।
उत्पद्यन्ते निरुध्यन्ते प्रत्यया एव केवलाः ॥ २५ ॥
इति चाङ्कुरबीजादिस्थाने बुद्धिनिवेशनात् ।
तदाभासः स्फुटो यच्च कल्पितक्षयकीर्तनम् ॥ २६ ॥
महाभूतादिविज्ञाने 129b प्रोक्तं समवरुध्यते ।
तज्ज्ञाने विगमं याति ननु मिथ्या विकल्पितम् ॥ २७ ॥
तत्रासत्त्वाधिमोक्षोऽर्थावरोधः श्रुतचिन्तयोः ।
तज्ज्ञान इति च ज्ञानरूपसाक्षात्कृतौ क्षयः ॥ २८ ॥
आत्मग्रहनिवृत्त्यर्थ स्कन्धधात्वादिदेशना ।
सापि ध्वस्ता महाभागैश्चित्रमात्रव्यवस्थया ॥ २९ ॥
इति श्लाघासमुद्धारान्निश्चयोऽत्र रुचेरपि ।
स्थितिद्वयमपेक्ष्यायं विशेषश्चेद् यथोदितम् ॥ ३० ॥
चित्तमात्रमिदं सर्वमिति या देशना मुनेः ।
तत्त्रासपरिहारार्थं बालानां सा न तत्त्वतः ॥ ३१ ॥
उच्छेदाभिनिविष्टानामिच्छां दत्त्वैष संग्रहः ।
त्रासहानेन नेत्यत्र च्छेदस्तु परमार्थतः ॥ ३२ ॥
अन्यथा बालसंत्रासहानिस्तुल्या स्थितिद्वये ।
कोऽत्र भेदो यतः श्लाघा प्रक्षेपो वा तथाविधः ॥ ३३ ॥
नापनेयमतः किञ्चिदित्यादिवचनस्य च ।
अन्वाख्यानात् स्वयमपि व्याख्येयं किमतः परम् ॥ ३४ ॥
भूतात्मना भूतमेव भूतं भूतात्मनैव च ।
द्रष्टव्यमिति वाक्यार्थो नेयतां गीयतेऽत्र किम् ॥ ३५ ॥
546
सर्वनास्तित्ववादे हि न भूतं किञ्चिदस्ति यत् ।
द्रष्टव्यं भूतरूपेणेत्यपवादान्त एष सः ॥ ३६ ॥
समारोपस्तवापीति नारोपः कल्पना यतः ।
निर्विकल्पे स्फुरत्यत्रारोपस्तु द्वयकल्पना ॥ ३७ ॥
अपवादो न संवृत्त्या नारोपस्तत्त्वतो यदि ।
न तौ द्वावपि तत्त्वेन यदि किं वा विरुध्यते ॥ ३८ ॥
संवृत्त्यानपवादोऽपवाद एव हि तत्त्वतः ।
सर्वनास्तित्ववादोऽतः प्राप्त उक्तं च दूषणम् ॥ ३९ ॥
भूतं चेत् शून्यता साधु यत्र यन्नास्ति तेन तत् ।
शून्यं गेहं यथा पुंभिर्न बाधा धर्मिधर्मयोः ॥ ४० ॥
अभूतपरिकल्पोऽस्ति द्वयं तत्र न विद्यते ।
शून्यता विद्यते त्वत्र तस्यामपि स विद्यते2615 ॥ ४१ ॥
सर्वनास्तित्ववादस्तु दूष्य एव मितेर्बलम् ।
चिन्तिष्यतेऽत एवार्याः किञ्चिन्नेक्षन्त इत्यसत् ॥ ४२ ॥
वेद्यवेदकभावेन कल्पितापेक्षयाथवा ।
निषेध एष सदृशो यदा चेक्षाविकल्पनम् ॥ ४३ ॥
यथा पुण्यबलं तेषां चित्रज्ञानसमुद्भवे ।
एतदेतच्च पश्यन्तीत्युच्यते व्यवहारिभिः ॥ ४४ ॥
अस्तित्ववारणं कुर्मो नास्तित्वस्य विधिर्न तु ।
तस्यापि प्रतिषेध्यत्वात् महानेष मनोरथः ॥ ४५ ॥
निषेध एवास्तित्वस्य नास्तित्वमभिधीयते ।
नञोऽपरार्थविरहान्नैकस्य विधिबाधनम् ॥ ४६ ॥
परस्परव्यवच्छेदरूपयोरेकबाधनम् ।
विधिं विधूय नान्यस्य स्थातुं क्षणमपि क्षमम् ॥ ४७ ॥
547
भौतकल्पितकल्पानां स्वभावानामसंभवे ।
सर्वोपाधिविविक्तस्य वस्तुरूपस्य न क्षतिः ॥ ४८ ॥
तस्माद् रूपद्वये निष्ठा नैकत्र विधिवाधयोः ।
भासेऽपवादोऽनाभासे चारोपस्त्यज्यतामतः ॥ ४९ ॥
शल्येन विशताङ्गेन च्छिद्यमानेन वा यथा ।
व्यथारोपापवादाभ्यां तथेह स्फुरदाकृतौ ॥ ५० ॥
शुद्धमाध्यमिकस्तस्माद् योगाचारान्न भिद्यते ।
समारोपापवादान्तमुक्तिरेव हि मध्यमा ॥ ५१ ॥
शून्यं नापि न चाशून्यं तस्मात् सर्वं विधीयते ।
सत्त्वादसत्त्वात् सत्त्वाच्च मध्यमाप्रतिपच्च सा2616 ॥ ५२ ॥
अभावार्थ परमते शून्यमादाय वागियम् ।
आर्यरा130a जस्य यत्नोऽयं दृष्टिदग्धैर्मुधाकृतः ॥ ५३ ॥
सत्त्वेऽत एव धर्माणां ज्ञेयावरणवारणे ।
विस्मयः कल्पितापेक्षोऽसकृच्छास्त्रेषु कीर्तनात् ॥ ५४ ॥
स्वयं विज्ञानवाद्येव परशब्देन चोदयेत् ।
विज्ञानवादिन इति वैशसं किमतः परम् ॥ ५५ ॥
स्वो भावी यदि संबुद्धो वञ्चकः कुत्र निर्वृतिः ।
वञ्चिता अपि तेनैव शोभाभाजो मनीषिणः ॥ ५६ ॥
पराशयाज्ज्ञाननयोऽथ नाथ
स्यार्यस्य किं नान्यकथा तथैव ।
यथा विनेयाः खलु तस्य केचिद्
भवादृशोऽप्यस्य तथा विनेयाः ॥ ५७ ॥
अनुक्तिरन्यस्य निजाशयस्य
साधारणायाश्च नरान्तरेऽपि ।
548
श्लाघां ततानार्यधराधिपस्य
यत्नस्तु मध्याप्रतिपञ्च सेति ॥ ५८ ॥
समेऽपि चेद् दर्शनमार्गलाभे
न भावनाथाभ्यधिकोऽपराधः ।
तदैकसत्ये सदृशे द्विधा चेद्
वरं धराधीशपुरप्रवेशः ॥ ५९ ॥
धर्मानुसारो यदिवर्णतस्ते
प्रमाणशास्त्रैकपरायणः स्याः ।
श्रद्धानुसारे तु महाजनीयः
सभाजनीयो युवराजराजः ॥ ६० ॥
जिनोक्तिमात्रं वत पुद्गलेऽपि
न सन्धिनिर्मोचनमोचनेन ।
नीतार्थलाभस्तदनादरे तु
बुद्धे स्वयं वक्तरि को विशेषः ॥ ६१ ॥

अन्तरश्लोकाः ॥

विनेयभेदाद् भित्त्वैकां गाम्भीर्यपरमार्थतः ।
विधिबाधामुखतया चतुर्धा स्थितिरुच्यते ॥ ६२ ॥
अपवादपरा ह्येके समारोपपराः परे ।
तत्राद्यानधिकृत्योक्ता प्रथमा चरमा परान् ॥ ६३ ॥
स्वयं निषेधनिरतेष्वभिसङ्गं निषिध्य ये ।
चिन्तास्तित्वविधानेन योगाचारनयस्थितिः ॥ ६४ ॥
आरोपरक्तेषु पुनर्बाधद्वारेण मध्यमा ।
तद्भम्ना च निषेधोक्तिर्भूयसी निरुपाधिका ॥ ६५ ॥
पङ्गुवद्गाढनुन्नाक्तिभित्तौ स्थास्यन्ति ते स्वयम् ।
साधर्म्यवैधर्म्यगिरोरैकार्थ्ये किं न भेदनम् ॥ ६६ ॥
549
योगाचारान्न तत्त्वेन भिद्यते शुद्धमध्यमा ।
तस्मादार्योऽपि चार्येशनयस्थ इति सुन्दरम् ॥ ६७ ॥
विशिष्टयोग्यतादृष्टेस्तद्द्वारेणान्यकर्षणात् ।
उत्साहनाच्च सोल्लासव्याकृतिर्न विरोधिनी ॥ ६८ ॥
तस्मादेषामपि नये यावदुक्तनिषेधनम् ।
कल्पितस्यैव तज्ज्ञेयं द्वितीयाचार्यनीतिवत् ॥ ६९ ॥
कल्पितस्य निषेधोऽयमिति संग्रहदर्शनम् ।
सर्वो ज्ञेयतया रूढ आकारः कल्पितो मतौ ॥ ७० ॥
मतावारूढ आकारो ज्ञेयरूपेण कल्पितः ।
तस्योपलक्षणत्वेन ज्ञानत्वेनापि कश्चन ॥ ७१ ॥
कल्पितस्य निषेधश्च ग्राह्यादित्वेन गृह्यताम् ।
विभक्तं टीकया यद्वत्तदभावात् तदप्यसत् ॥ ७२ ॥
असदेव यतः ख्याति तदविद्याविनिर्मितम् ।
असत्ख्यापनशक्तौ हि साविद्येति निगद्यते ॥ ७३ ॥
ख्यातिरध्यवसायार्थो विकल्पे स्फुरतीति वा ।
अविद्यावासनायातकल्पस्थस्तत्कृतो मतः ॥ ७४ ॥
प्रज्ञापारमितायां हि त्रीन् समाश्रित्य देशना ।
कल्पितं परतन्त्रं च परिनिष्पन्नमेव च ॥ ७५ ॥
नास्तीत्यादिपदैः सर्वैः कल्पितं विनिवार्यते ।
मायोपमादि130b दृष्टान्तैः परतन्त्रस्य देशना ॥ ७६ ॥
चतुर्धा व्यवदानेन परिनिष्पन्नकीर्तनम् ।
प्रज्ञापारमितायां हि नान्या बुद्धस्य देशना ॥ ७७ ॥
इत्थं पारमितानीतेरक्षीणार्थान्वयाच्च तत् ।
तस्यां हि तावत् साकारवादः स्फुरति निर्मलः ॥ ७८ ॥
550
ततो यद्यन्य एवार्थो मुख्यमाख्याय भाविकम् ।
अर्थ आर्यनयेऽप्येष ग्राह्य इत्युचितं वचः ॥ ७९ ॥
अथ तस्मादियत्यंशे भेदः साध्ये तथापि किम् ।
द्वयमात्रनिषेधेन निर्वृतिः कृतिना कृता ॥ ८० ॥
वाच्यो भासनिषेधोऽपि भास एव च न द्वयम् ।
लक्षणाभावतो भावे त्वबाधा सूचिता पुरा ॥ ८१ ॥
संभोगे चोपचारादि वर्ण्येत विशदाक्षरम् ।
प्रधानार्थतयार्येण स्वानीतौ वा प्रकाशनात् ॥ ८२ ॥
भगवत्या हि पिण्डार्थवाक्प्रवृत्ते न किं कृतम् ।
विहाय हेयोपादेयव्यक्तिमीषत्करां गिरा ॥ ८३ ॥
गुणरूपविशेषेण स्वस्तुतिर्वा किमन्यथा ।
यद् वा वार्तिकमादर्शस्तन्मतस्य परेण किम् ॥ ८४ ॥
तत्र वार्तिककारेण यत्नाद् बाह्येऽपि साकृतिम् ।
धियं प्रसाध्य तन्मात्रं शेषितं ग्राह्यविप्लवात् ॥ ८५ ॥
आत्मा स तस्यानुभवः स च नान्यस्य कस्यचित् ।
प्रत्यक्षप्रतिवेद्यत्वमपि तस्य तदात्मता2617 ॥ ८६ ॥
तथा ब्रुवाण आर्येश इत्थं वार्तिककृद् वदन् ।
संमुखोऽप्यन्यथा कुर्वन्न संप्रत्ययगोचरः ॥ ८७ ॥
यद्याकारं प्रवेश्यापि चित्ते चित्तमनाकृतिः ।
इष्टमालीक्यमाकारस्यान्तर्न्यासोऽस्य किंफलः ॥ ८८ ॥
निराकारं मनः सिद्धं सर्वयोः स्वान्यवादिनोः ।
ज्ञानवद् बहिरारोपेऽप्याकृतेर्दूषणं समम् ॥ ८९ ॥
ततः प्रयासः किमियान् प्रक्षाल्य त्याग एव वा ।
अयत्नसिद्धो वितथस्फुरणे वासनान्वयः ॥ ९० ॥
551
ग्रहसाधुतयाकारं ग्राह्येऽङ्गीकार्यदूषिते ।
साकारचित्तनिष्ठायां युक्तमाकारसाधनम् ॥ ९१ ॥
ग्रहणे करणत्वेन प्रकाशैकोपलम्भतः ।
विप्रतीतिशताधारं प्रसाध्याकारवन्मनः ॥ ९२ ॥
मानमेयफलन्यायं निर्बन्धेन विधाय च ।
अतृप्तेः पुनरन्तेऽपि तदर्थो हि महान् श्रमः ॥ ९३ ॥
प्रत्युतालीकमाकारं मुधा साधयतः प्रति ।
प्रत्यासत्तिं ग्रहेऽनाद्यः स एव स्यान्निदर्शनम् ॥ ९४ ॥
ततः स्वभावतोऽनात्मप्रकाशबलवन्मनः ।
सिद्धमित्थफलं ग्राह्यलक्षणक्षतिचिन्तनम् ॥ ९५ ॥
सहोपलम्भप्राकाश्यहेतुद्वयगिराप्यलम् ।
द्वितीयाचार्यवश्यत्वं धर्मोत्तरवदुच्यताम् ॥ ९६ ॥
न च वार्तिककारीयमेकानेकात्ययोऽञ्जसा ।
बाह्येऽपि दूषणं 2618क्वापि परमाणोरदूषणात् ॥ ९७ ॥
यत्नसाधितसाकारे स्थित्वा ग्राह्यं तु दूषितम् ।
वैभाषिकाच्च सूत्रान्ती वर्णितस्तत्त्वसन्निधेः ॥ ९८ ॥
ततोऽलीकमसद् वेति सर्वत्रावशितं प्रति ।
न ह्याकारस्वरूपेण गृह्यते किं तु बाह्यतः ॥ ९९ ॥
दृष्टमिन्दुयुगं तच्च नास्तीत्युक्तिर्न चेतसः ।
दृष्टाकृतिर्मृषावेति न चेन्दुद्वयमेव तत् ॥ १०० ॥
जलारोपोदिताद्दोषाच्चित्ताकारस्तु युज्यते ।
असाधारणनिर्भासी प्रकाशो न परस्य च ॥ १०१ ॥
इयं131a यथाध्यवसिति व्यवस्था तत्त्वतः पुनः ।
केशादयो न सामान्यमनर्थाभिनिवेशतः ॥ १०२ ॥
552
इत्याह न त्वनर्थत्वादित्यन्यच्च स्फुटाभता ।
ज्ञानरूपतयार्थत्वात् केशदीति मतिः पुनः ॥ १०३ ॥
सामान्यविषयं केशप्रतिभासमनर्थकम् ।
इन्द्रियज्ञानसंख्यातमसद्बाह्यावसायतः ॥ १०४ ॥
ज्ञानरूपतयार्थत्वे सामान्ये चेत् प्रसज्यते ।
तथेष्टत्वाददोषोऽर्थरूपत्वेन समानता ॥ १०५ ॥
अप्रतिक्षेपभाग्धर्मी शब्दार्थ इति चासकृत् ।
तस्माद् यथाप्रतीत्युक्तः शब्दार्थोसावसन्नपि ॥ १०६ ॥
अभवन्नपि शब्दार्थः शब्दार्थ इति कीर्तितः ।
ज्ञानाकारश्रुते शब्दे तद्भासादिति दर्शितम् ॥ १०७ ॥
यथावसायं तु बहिः शब्दार्थ इति निश्चयः ।
अतद्रूपपरावृत्तवस्तुमात्रस्थितेरिति ॥ १०८ ॥
यथाप्रतीति सत्त्वं चेत् नावसायोऽत्र सापि तु ।
भासनं सैव सत्तास्य बाह्ये शक्तेस्त्वपेक्षणम् ॥ १०९ ॥
तस्माज्ज्ञानतयैवोक्त आकारोऽर्थ इति स्थितम् ।
व्याख्यातं भाष्यकारेण यच्च तत्र श्रमेण किम् ॥ ११० ॥
साकारमेव चेतश्चेत् पर्यन्तेऽप्यधिकं न हि ।
संक्लेशव्यवदानं चेत्येकमस्तु न तु द्वयम् ॥ १११ ॥
आकार एव संक्लेशो व्यवदानं तु तत्क्षयः ।
इत्यनाकारवादे स्यादुभयस्य व्यवस्थितिः ॥ ११२ ॥
अतस्मिंस्तद्ग्रहाद् भ्रान्तिर्विकल्पस्तत्क्षयः समः ।
समापि चेद् विकल्पोऽपि सत्याकारः कथं भ्रमः ॥ ११३ ॥
अवसाये प्रकाश्यत्वं प्रकाशे च तदात्मता ।
अर्थस्य हानौ न स्याच्च नाम इत्यादिवेदनम् ॥ ११४ ॥
553
सर्वात्मनिश्चयश्च स्यात् स्पष्टोऽर्थः स्याच्च गौरिति ।
स्वलक्षणे चासंकेतात् कल्पिकैव भवेन्न धीः ॥ ११५ ॥
तस्मादशेषगोव्यक्तिसामान्येन विभाति धीः ।
गोत्वेन साभिलापेनालीकेनेति तथा प्रथा ॥ ११६ ॥
गवावसाय इत्यस्तु नैते दोषा भवन्त्यतः ।
स्वलक्षणस्याभावेऽपि भ्रान्त्या तदवसायतः ॥ ११७ ॥
यथालीकस्य गोत्वस्य गोबुद्धौ च प्रकाशनम् ।
तादात्म्यं चाव्यतिरिचोऽनारोपो वस्तुतापि च ॥ ११८ ॥
तथा नीलादिनिर्भासेऽलीकस्य धवलादिनः ।
प्रकाशभावसिद्ध्यैव तादात्म्यं सिद्धमिष्यताम् ॥ ११९ ॥
वस्तुतायामनारोपे लिङ्गं तादात्म्यगोत्रकम् ।
गोत्वादिभिरनेकान्तसमारोपमसिद्धकम् ॥ १२० ॥
तदेतत् फल्गु सकलं यतः साकारवादिनाम् ।
सतोऽपि भानं नार्थस्य कुत एवासतो भवेत् ॥ १२१ ॥
स्वरूपस्यैव निर्भासाद् बालस्याप्येष निश्चयः ।
अर्थभानाश्रयास्तस्य किल दोषाः प्रसङ्गिनः ॥ १२२ ॥
कुत्र सङ्केतकरणं शब्दो यस्यावबोधकः ।
कस्यावबोधकः शब्दो यत्र संकेतकक्रिया ॥ १२३ ॥
वाचोयुक्तिरियं कीदृशीदृगेव यदीक्षसे ।
वाच्यवाचकतां क्वापि ममापि प्रतिपादय ॥ १२४ ॥
अलीको यस्य चाकारः किं तस्यापि विशिष्यते ।
अलीके यदि 2619संकेतः सत्याकारे कथं न सः ॥ १२५ ॥
फलं न सत्यप्याकारेऽलीके सुष्ठु न विद्यते ।
अर्थारोपादलीके चेत् सत्ये केन निषिध्यते ॥ १२६ ॥
554
कोऽ131b र्थारोपोऽथ सत्यत्वेऽलीकत्वेऽपि स कीदृशः ।
सत्योऽलीकोऽथवाकारो वस्त्वारोपस्तु किंकृतः ॥ १२७ ॥
असत्यगोत्वभानाद् हि भानात् सत्याकृतेर्न किम् ।
सत्येऽपि सत्याकारश्चेत् सत्येऽप्यालीक्यमाकृते ॥ १२८ ॥
असत्यभानादारोपो युक्तः सत्ये कथं भवेत् ।
नन्वसत्येऽपि संकेतोऽसत्यत्वावसितौ कथम् ॥ १२९ ॥
तस्मादर्थक्रियाशक्तवस्त्वारोपात्मनस्तनौ ।
संकेतकरणं सत्यासत्ययोर्न विशिष्यते ॥ १३० ॥
यथातथात्वे वाकारस्यावसायो न विद्यते ।
न भानमर्थस्य ततो वाच्यता कस्य तत्वतः ॥ १३१ ॥
अभाने प्रतिभाने वा न चारोपोऽपि कस्यचित् ।
प्रतीत्योत्पादभेदेन व्यवस्थामात्रमीदृशः ॥ १३२ ॥
निर्विकल्पाद् विकल्पस्य भावे लेशानुसारिणः ।
संकेतकारिवचनाद् बुद्ध्याकारे विशेषिणि ॥ १३३ ॥
संकेतः कृत इत्यास्था तादृक्शब्दस्थितौ पुनः ।
प्रवृत्त्याक्षेपबुद्ध्यात्मभावे वाच्यव्यवस्थितिः ॥ १३४ ॥
एवं प्रवृत्तेराक्षेपिविकल्पाकारजन्मनि ।
सतो जलादिरारोपः सत्यासत्यसमश्च सः ॥ १३५ ॥
ततो यद्यपि तत्त्वेन नारोपः कस्यचित् क्वचित् ।
व्यवहारकृतस्त्वेष प्रतिषेद्धुं न शक्यते ॥ १३६ ॥
मरीचौ जलवद् यावदनात्मन्यात्मकल्पनम् ।
भ्रमः स एव संसारो निर्वाणं तत्वसंस्थितिः ॥ १३७ ॥
तदत्र यावन्न विचारसंभवो भवोऽयमन्यः शम इत्ययं नयः ।
विचारलीलालुलिते तु मानसे भवः शमो वा क
इहेति कथ्यताम् ॥ १३८ ॥

तथा च,—

555
नचान्तरं किञ्चन विद्यतेऽनयोः सदर्थवृत्त्या शमजन्मनोरिह ।
तथापि जन्मक्षयतो विधीयते शमस्य लाभः
शुभकर्मकारिणाम् ॥ १३९ ॥

तथा,

निर्वाणं च भवश्चैव द्वयमेतन्न विद्यते ।
परिज्ञानं भवस्यैव निर्वाणमिति कथ्यते ॥ १४० ॥
जलबुद्धावलीकत्वं नाकारस्य प्रयोजकम् ।
भ्रमव्यवस्थितौ तद्वद्ग्राह्यग्राहकविप्लवे ॥ १४१ ॥
सत्येऽसत्येऽथवाकारे नापराधोऽस्ति चेतसः ।
यदि प्रवृत्तेराक्षेपी बाह्यारोपो न जायते ॥ १४२ ॥
सत्याकारमपि ज्ञानं कल्पकं गोचरे ततः ।
प्रवृत्त्याक्षेपणाद् दुष्टं प्रवृत्तिः संसृतिर्यतः ॥ १४३ ॥
प्रवृत्तिरविकल्पेऽपि विकल्पेऽपि न सेति2620 चेत् ।
विशेषसरणेऽप्येव तत्रानिष्टिस्ततो न किम् ॥ १४४ ॥
अनादिकालिकाभ्यासाद्यथा किञ्चित् क्वचित् क्षमम् ।
तथा विकल्पस्यापीयं योग्यतानिष्टिसाधनी ॥ १४५ ॥
विकल्पे क्लेशभावोऽधिसत्त्वानामत एव हि ।
तद्वासनाहतौ यत्नो यावद्धेतुफलस्थितिः ॥ १४६ ॥
अलीकगोत्वाकारेण ख्यातिः सिद्धा न 2621गोमतेः ।
सत्याकारोऽपि संकल्पोऽध्यवसायः प्रवर्तनात् ॥ १४७ ॥
सत्यस्य गोत्वाकारस्य गोबुद्धौ भासनं यथा ।
तादात्म्यं चाव्यतिरिचोऽनारोपो वस्तुतापि च ॥ १४८ ॥
तथा नीलादिनिर्भासे सत्यस्य धवलादिनः ।
प्रकाशभावसिद्ध्यैव तादात्म्यं सत्यमिष्यताम् ॥ १४९ ॥
556
यद्वस्तुरूपं तद्वस्तु गोविकल्पे यथाकृतिः ।
प्रकाशवस्तुरूपं च नीलं न स्फूर्तिरन्यथा ॥ १५० ॥
तादात्म्यद्वैधनिर्धूतेः सिद्धो बाधश्च वास्तवः ।
नेक्षते च सितादन्यस्तथानारोपसाधनम् ॥ १५१ ॥
शक्तस्त्वलीक132a आकारो नोपकारापकारयोः ।
कादाचित्कः स्फुरन्नर्थसमर्थो वा मृषा कथम् ॥ १५२ ॥
एतत्स्वरूपबाधे हि बाधकोऽप्यस्य किंकरः ।
ततः स्वयं प्रकाशात्मा शुद्धो वा क्लिष्ट एव वा ॥ १५३ ॥
अलीकमात्रं सदपि न हि क्वापि विबन्धकृत् ।
विबन्धकत्वेऽलीकत्वमेवालीकं प्रसज्यते ॥ १५४ ॥
गोचरान्तरसञ्चारो नेष्ट एव क्व बन्धकृत् ।
स्वसंवित्तौ पुनस्तस्य शतेनापि न बन्धनम् ॥ १५५ ॥
स्ववित्तिबन्धे हि जडः प्रकाशश्च स्वहेतुतः ।
इत्ययुक्तमतोऽशक्यं स्वाभेदेनापि वेदनम् ॥ १५६ ॥
स्वहेतोश्च तथोत्पत्तिर्वेदनं च तदात्मना ।
भावैः स्वीकृतमेकत्वं वादिनां महती व्यथा ॥ १५७ ॥
तन्नालीकोऽयमाकारः स्पृशत्येनं स्फुरन्नपि ।
तावताप्यस्य संक्लेशे सन्तानान्तरतो न किम् ॥ १५८ ॥
वस्तुसन्नपि सन्तानभेदस्तस्य न बाधकः ।
असत्यः पुनराकारो बाधायेति किमप्यदः ॥ १५९ ॥
तत्प्रवृत्तिनिवृत्तिभ्यां संसारो नाम नापरः ।
2622तत्त्वावसायभेदेषु प्रतिबन्धे प्रसाधिते ॥ १६० ॥
विशेषश्चावसायानामाकारात्परतो न च ।
जलाकाराद् विसंकल्पाज्जल एव प्रवर्तते ॥ १६१ ॥
557
जलाकारविकल्पोऽपि जलाकारादकल्पतः ।
भवन्नपि न तन्मात्राद् वासनासचिवा त्वसौ ॥ १६२ ॥
तद्वासनासमुद्घाते केवलान्नाविकल्पतः ।
ग्राह्यग्राहकभावादेरभूतस्य विकल्पनम् ॥ १६३ ॥
निर्विकल्पमपि ज्ञानं हेतुश्चेद् वासनाश्रयात् ।
यथाप्रवृत्ताकारस्य तत्क्षयेऽस्तूदयक्षयः ॥ १६४ ॥
आ बोधिचित्तग्रहणाद् दानाद्यभ्यासतः क्रमात् ।
अतिविश्ववपुर्भोगप्रतिष्ठाकारसंभवः ॥ १६५ ॥
आसंसारमविश्रामपरार्थस्वार्थसंपदे ।
रुचेस्तदेकनिष्ठत्वात्तद्धेतावसमः श्रमः ॥ १६६ ॥
महाकारुण्यसम्पन्नपुण्यज्ञानश्रियान्ततः ।
विशुद्धिवासनाबन्धप्रबन्धस्थैर्यसाधनः ॥ १६७ ॥
तत्रासत्कल्पना कालः संक्लेशः शुद्धिरुत्तरः ।
साकार एव विज्ञाने तस्मादेषा व्यवस्थितिः ॥ १६८ ॥
अद्वैतचित्रगुणसंभृतशातपूर्ण
साधारधेयमयमण्डनचक्ररूपम् ।
साध्यं विधूय न च सन्तनयोऽपि सारः
साकारनीतिरिति नीतिपुगस्य जीवः ॥ १६९ ॥
दृष्टं शर्मविशिष्टसाधनपराधीनं यथा भावना
प्यस्योदेति तथैव यत्सुखरसाकृष्टाङ्गनादेरपि ।
निष्पत्तौ च तथा निरन्तरसुखस्यन्दाभिनन्द्याकृतौ
बाधाबाधविधौ समेतरतया शर्मैकशेषोऽस्तु किम् ॥ १७० ॥

अन्तरश्लोकौ ॥

॥ इति धर्मकायचिन्तामशेषआमारभ्य संक्लेशव्यवदानपर्यन्त
शास्त्रकारान्तरैकवाक्यतानिर्णयस्तृतीयः परिच्छेदः ॥
  1. तथा सच्चेति मातृकायाम् ।

  2. म. वि. १. २.

  3. म. वि. १. ३

  4. प्र. वा. २. ३२६

  5. क्वचिदिति मातृकायाम् ।

  6. शङ्केतः इति मातृकायाम् ।

  7. सतीति मातृकायाम् ।

  8. गोमतो इति मातृकायाम् ।

  9. ते, चाव० इति मातृकायाम् ।