577
प्रतीतिरेव सत्तास्तु यदा बाह्येऽपि तत्त्वतः ।
भासिनो धर्मिणस्तर्हि क्व बाधा क्व च संशयः ॥ २२३ ॥
कदाचित् केनचिद् दृष्टस्यानुमानत्वमन्यदा ।
अपात्रं सर्वथा दृष्टेः पात्रं किं सदिति स्थितेः ॥ २२४ ॥
विकल्प एवानुमितेरभावेऽपि प्रकाशनम् ।
तादृशां यादृशी सत्ता प्रतीतिरपि तादृशी ॥ २२५ ॥
प्रतीतिमेव सत्तां च स्फुटयन् वार्तिके कृती ।
अप्रतीत्यैव बाह्यस्य विन्मात्रं प्रत्यपीपदत् ॥ २२६ ॥
तद्भासमात्ररूपेण भातद्रव्यादिता मुधा ।
चित्रे भासैकभावः स्यान्न प्रपञ्चो गुणादिभिः ॥ २२७ ॥
स्थितिर्हिविज्ञाननये तात्त्विकी च फलाङ्गता ।
अहो नैर्लज्यमथवा सर्व हि महतां महत् ॥ २२८ ॥
पूर्वापरपरिज्ञाने परज्ञाने च तद्ग्रहः ।
कुतः स्ववित्तिनिष्ठायामुभयस्याप्यसंभवात् ॥ २२९ ॥
अभासे पूर्वपरताज्ञानं न