137a ज्ञानहानितः ।
न भासे पूर्वपरताज्ञानमद्वैतसंगतेः ॥ २३० ॥
स्वैकरूपे द्वयाभावात् स्वान्ययोः परयोर्न वा ।
फलाङ्गभावः परवित् परिहारात्तु न द्विधा ॥ २३१ ॥
तस्माद् यथा परज्ञानं तथा हेतुफलस्थितिः ।
यथा स्ववित्तिविश्रामस्तथा संवृतिसत्यसौ ॥ २३२ ॥
चित्तमात्रव्यवस्थानमनुत्पादं वदन्त्यतः ।
प्रतीत्योत्पन्नताप्यस्मादसिद्धेरप्यसाधनम् ॥ २३३ ॥
न च प्रतीत्योत्पन्नत्वमेव वाच्या च शून्यता ।
अधरस्थितियुग्माच्च नैवं भेदो वृथा श्रमः ॥ २३४ ॥