यत्तु परं कारणमविज्ञेयत्वमुक्तं तदयुक्तम् । सत एवार्थस्य पुरुषापराधेनाविज्ञानात् । तत्र चार्थप्रकरणसूक्तदेवतार्षनिगमनिरुक्तव्याकरणज्ञानान्यधिगमोपायाः । तेषां ह्येवमर्थमेव परिपालनम् । यथैव च व्याकरणेन नित्यपदान्वाख्याने क्रियमाणे लोपविकारादीनामुपायत्वेनोपादानमव्युत्पन्नाश्च तैरेव पदोत्पादनमिव मन्यन्ते । तथाऽत्र नित्यवाक्यार्थ157 प्रतिपत्तावार्षोपाख्यानमनित्यवदाभासमानमुपायत्वं प्रतिपद्यते । तत्र यथा कश्चिद्व्याचक्षाणः पदतदवयवादीनां चेतनत्वमिवाध्यस्य विशेषबाधादिव्यापारं निरूपयत्येतेनैवमुक्तोऽयमेवं प्रत्याहेति । यथा च पूर्वपक्षोत्तरपक्षवादिनौ व्यवहारार्थं कल्पितावेवमृष्यार्षेयविविषया कल्पना । अथ वा परमार्थेनैवेदमृषिभिस्तथोक्तं न तु स मन्त्रस्तैरेव कृतस्तदानीं वा पुरुषान्तरेष्वसन्नेव तेषामाविर्भूतः । किं तर्हि यथाऽद्यत्वेऽपि कश्चित्प्रकृतार्थविवक्षायां तदर्थं वाक्यमुपादित्समानस्तदर्थसरूपं मन्त्रं श्लोकं वाऽन्यदीयं स्मृत्वा स्ववाक्यस्थाने प्रयुङ्क्ते तत्प्रत्ययेन चान्ये तदर्थमवधारयन्त्येवमिहापि वेदार्थविद्भिस्तद्वासितान्तःकरणैर्मृग्वादिभिरात्मीयव्यवहारेषु श्रुतिसामान्यरूपेण विशिष्टार्थप्रत्यायनार्थं मन्त्राः प्रयुक्तास्तद्बलेन चास्मदादीनां तदनुरूपाऽनित्यार्थप्रतिपत्तिर्मवति । प्रत्ययदृढत्वार्थमेव चाऽऽर्षस्मरणम् । तत्रैवमुपाख्यानं स्मरन्ति । यथा किल भूतांशो नाम कश्चिदृषिर्जरामरणनिराकरणार्थी सृण्येवेत्येवमादिना सूक्तेनाश्चिनौ स्तुतवान् । भूतांशो अश्विनोः काममप्राइति चान्ते संकीर्तनात्तस्याऽऽर्षमाश्विनं सूक्तमिति च द्योतितम् । तत्र सृणिरङ्कुशः सरणसाधनत्वात्तमर्हन्तौ तत्र वा साधू इति सृण्यावर्थात्कुञ्जरौ । आकारश्छन्दसि द्विवचनादेशः । ताविवात्यर्थं जृम्भमाणावष्टाङ्गप्रहरणव्यापृतौ जर्भरी । तुर्फरीतू हिंसन्तौ । नितोशतिर्वधकर्मा तत्कारिणौ नैतोशौ—योद्धारौ ताविव तुर्फरी—त्वरमाणा हिंसकाविति वा । पर्फरीकाशोभायुक्तौ । उदन्यतिः पिपासार्थः, तत्र जातौ, उदन्यजौ प्रावृषिजौ चातकौ जेमना—उदकवन्तौ जेमशब्दात्पामादिविहितो मत्वर्थीयो नप्रत्ययः । तौ यथोदकलाभेन मत्तौ भवतस्तथा यौ मदेरू तौ मे जरायुमरायु जरामरणधर्मकमर्थाच्छरीरमजरममरं च कुरुतमिति वाक्यशेषः । तेनैवं वाक्यार्थो यावङ्कुशचोदिताविव कुञ्जरौ सर्वतो जृम्ममाणौ शत्रूणां निहन्तारौ भवतो हिंस्राविव च हिंसनव्यापृतौ दाक्ष्येण च शोभेते चातकाविव चोदकलाभेन मदात्प्रीयेते तावुभावपि जरामरणयोः कुपिताविवाजरत्वस्यामरत्वस्य वा प्रीतावजरममरं मे शरीरं विधत्तामिति । “अम्यक्सा त” इत्यगस्त्यार्षं तेन किलेन्द्रोऽमरत्वं धनं प्रार्थितस्तथा चोपरितन्यामृचि “त्वं तू न इन्द्र तं रयिं दा” इति श्रूयते । तदेवास्यामृच्यनुषङ्गेण द्रष्टव्यम् । इयं च च्छन्दोमद्वितीयेऽहनि मरुत्वतीये शस्त्रे विनियुक्ता । तत्राम्यगित्यमाशब्दोऽव्ययं साहित्यवाची यतोऽमात्य इति भवति सहाञ्चतीत्यम्यक्सा त इन्द्र, ऋष्टिरायुधविशेषः पाणिक्षेप्यः, अस्मे इति—अस्माकं सनेमि—पुराणम् । अम्वं—तोयं मरुतो जुनन्ति—क्षिपन्ति । अग्निश्चिदित्युपमार्थो हि स्म, अतसे—शुष्कतृणे शुशुक्वान्—दीप्त158 वान् आप इव द्वीपं दधति प्रयांसि—अन्नाद्यानि । वाक्यार्थे तु प्रथमतृतीययोर्द्वितीयचतुर्थयोश्च पदानां संबन्धः । तत्र सेत्येतदाक्षिप्तो यच्छब्दस्तृतीयपादे कल्प्यते । शुष्कतृणे दीप्तोऽग्निरिव या लक्ष्यते तव सहचारिणी नित्यमृष्टिस्तव वल्लभा सा तावत्त्वत्प्रसादेनास्माकमेव । येऽप्यमी पुराणं जलं वृष्टिरूपेण विक्षिपन्त आप इव द्वीपमन्नाद्यानि धारयन्ति तव प्रियसखास्तेऽप्यस्माकमेव स त्वमेवं साधारणद्रव्यः सन्नमरत्वं न केवलं देहि । एकया प्रतिधाऽपिवदितीन्द्रस्यैव स्तुतिः । एकेन प्रयत्नेनापिबत्साकं—यौगपद्येन, सरांसि—पात्राणि सोमस्य पूर्णानि इन्द्रः काणुका—कामयमानःकामुकशब्दस्य च्छान्दसो वर्णव्यत्ययः । आकारस्तु विभक्त्यादेशः । अथ वा कान्तकानीत्यादयो निरुक्तोक्ताः काणुकाशब्दविकल्पा योजनीयाः । तदेवं सर्वत्र केनचित्प्रकारेणाभियुक्तानामर्थोत्प्रेक्षोपपत्तेः प्रसिद्धतरार्थाभावेऽपि वेदस्य तदभ्युपगमात्सिद्धमर्थवत्त्वम् ॥ ४१ ॥