622 भवेन्नार्थान्तरवचनत्वं, शब्दार्थानित्यत्वप्रसङ्गात् । तस्मात्सकृदेव प्रयोग इति । सर्वं त्विदमभ्यासाधिकरणे निराकृतमपि सदुत्तरसूत्रदर्पेण विश्रब्धमभिधीयते न तु परमार्थेनाऽऽनर्थक्याभ्युपगमं वेदः क्षमते ॥ २८ ॥

सर्वथा पुनःश्रुतिप्रयोजनेष्वत्रान्विष्यमाणेषु गुणस्याश्रवणात्परिसंख्यायाश्च त्रिदोषत्वादर्थवादार्थत्वेऽभ्युपगते कस्यार्थवाद इति विविच्यासंकीर्तनान्नूनमाग्नेयस्यैवेति मत्वा वदति—सार्थवादकेन विहिते किं प्रदेशान्तरस्थेनैकवाक्यतामनागच्छताऽर्थवादेनेति । विधिशेषत्वं ह्यर्थवादानामवस्थितम् । परिचोदना तु पूर्वपक्षाभिप्रायेण कृता । तत्र यथा स्तुता वाऽस्तुता वा सैव देवतेत्यविवरणान्न विज्ञायते किंविषयमिति । तत्त्वेतदतिक्रान्तालोचनेन महेन्द्राधिकरणे 484‘गुणश्चानर्थकः स्यात्’ इत्यत्र सूत्रेऽभिहितं परामृष्टमिति दृश्यते । यथैव हि महत्त्वं देवतानन्तर्गतमिति पक्षे केवलस्यैवेन्द्रस्य साधनत्वाद्विध्यु485द्देशेऽर्थवादेऽवस्थितमनर्थकं प्राप्नोति । तथैवेदं स्वतन्त्रस्तुतिमात्रमिति मन्यते । तत्रोच्यते ।

  1. ( अ॰ २ पा॰ १ अ॰ ५ सू॰ १८ ) ।
  2. विध्युद्देशेऽर्थवाद इति—समाप्ते हि विधिवाक्येऽर्थवादान्वयोपपत्तेर्विधिवाक्यमध्येऽर्थवादोऽनर्थक इत्याशयः ।