369 सत्यवैगुण्यं प्रधानस्य चोदितमित्याश्रयिष्यामह एव । तस्माद्यावदेव लब्धात्मको विधिस्तावद्यत् कल्पते तद्वैदिकं, सिद्धे तु तत्कल्पनं पौरुषेयत्वादप्रमाणं सामर्थ्याधीनत्वाद्वाक्यशेषसिद्धेः । आह च—

यथैव पाठः प्रतिपत्त्युपायस्तथैव सामर्थ्यमपि श्रुतीनाम् ।
तेनैव चैता न समामनन्ति सहस्रभागास्तु समामनेयुः ॥
इति कृतबहुमार्गं मन्त्रविध्यर्थवादैः स्मृतिपरिखमुदारं वेदशालोपगूढम् ।
अनभिभवसमर्थं धर्मदुर्गं प्रविश्य प्रविभजति समस्तामर्थचिन्तामिदानीम् ॥ २५ ॥
इति सामर्थ्याधिकरणम् ॥ १४ ॥
इति श्रीभट्टकुमारिलविरचिते मीमांसभाष्यव्याख्याने तन्त्रवार्तिके प्रथमस्याध्यायस्य चतुर्थः पादः ।
समाप्तः प्रथमाध्यायः ॥

भावार्थाधिकरणम्