803 एवं लिङ्गविनियोगमुपवर्ण्य संप्रति वाक्यविनियोगः प्रस्तूयते । तत्रोदाहरणम् । ‘उच्चैर्ऋचा क्रियते’ इत्यादि वाक्यम् । ‘तद्यदि ऋक्त उल्बणं क्रियते गार्हपत्यं परेत्य भूः स्वाहेति जुहुयात्’ ‘यदि यजुष्टो यदि सामतः’ इत्यादि च । तत्र किमृग्यजुःसामशब्दैरुच्चैस्त्वोपांशुत्वधर्मविधौ महाव्याहृत्यग्नित्रयसंबद्धहोमविधौ च पूर्वोत्त772रपदसंबन्धनिरपेक्षाभिधानश्रुतिवशेन ‘तेषामृ773ग्यत्रार्थवशेन पादव्यवस्था’ इत्येवंलक्षणानामृगादिजातानां ग्रहणमुत समस्तमन्त्रब्राह्मणात्मकानां वेदानामिति । कुतः संशयः । एकवाक्योपक्रमोपसंहारश्रुत्योर्विप्रतिपत्तेः । उपक्रमे हि वेदाः श्रूयन्ते । उपसंहारे तु ऋगादिजातानि । तत्र यदि वोपक्रमस्थवेदपदमवयवभूतजातलक्षणार्थम् । अथवोपसंहारस्थमृगादिजातं सब्राह्यणकसमुदायलक्षणार्थमिति समञ्जसासमञ्जसयोः संदेहः । स च ‘अक्ताः शर्कराः’ इतिवदाक्षेपपरिहाराभ्यां समर्थनीयः । एवं तर्हि तेनैव774 गतत्वान्नैतदारब्धव्यम् । नायमुपालम्भः । संदिग्धेषु हि वाक्यशेषस्य तत्र प्रामाण्यमुक्तम् । इह पुनर्विध्युद्देशवर्तिनामृगादिशब्दानां निःसंदिग्धमन्त्रभेदजातवचनत्वादसंदिग्ध एव विध्युद्देशः । तेन व्यवधारणकल्पनयाऽन्यतरपक्षावधारणं कार्यमित्यारभ्यते । किं प्राप्तम् । तदीयपूर्वपक्षन्यायेनैव विध्युद्देशश्रुतिबलीयस्त्वाज्जाताधिकार इति । किं च ।

यथा च द्रव्यसामान्यं क्रिया वा न विरुध्यते ।
विशेषैर्वाक्यशेषस्थैर्नैवं वेदैर्ऋगादयः ॥

न कथंचिदृगादिशब्देन ब्राह्मणं वक्तुं शक्यम् । शक्नोति तु वेदशब्द एकदेशेऽपि वर्तितुं, समुदायशब्दानामेकदेशेष्वप्युपलब्धेः, यथा ग्राम आयात इति । तथा चाध्येतारस्तत्रैव सुतरां प्रयुञ्जते वेदमधीमहे वेदो वर्तत इति । न च ब्राह्मणमधीयानास्तथा 804 वदन्ति । किं775 च ।

जातस्य हि व्यवस्थानाच्छक्यं धर्मावधारणम् ।
संकीर्णत्वात्तु वेदानां भवेत्तद्धर्मसंकरः ॥

ऋचो हि ता एव काश्चित्त्रिष्वपि वेदेषु पठ्यन्ते । तथा यजूंषि । तत्र यदि वेदत्वं धर्मसंबन्धहेतुतस्तादृशेषु न ज्ञायते को धर्मः क्रियतामित्यन्याय्यो वा विकल्प आश्रीयते । वेदान्तरव्यपदेशस्य तुल्यबलत्वात् । जातिपक्षे तु नैष दोषः । न ह्येकस्मिन्वर्णसमूहे जातिद्वयं समवेतम् । ज्योतिष्टोमप्रकरणं चैवमनुग्रहीष्यते । अन्यथा वेदस्य समस्तेष्टिपश्वेकाहाहीनसत्रविषयत्वाद्यावद्वेदानुसारी धर्मः प्रकरणमुल्लङ्घ्य सार्वत्रिकः स्यात् । ननु जाताधिकारेऽपि वेदवज्जातस्य प्रकरणान्तरेष्वपि भावात्तुल्यमेतत् । अथ प्रकृतजातातिक्रमकारणाभावादिह व्यवस्था, सा वेदपक्षेऽप्यविशिष्टा । यावन्प्रकरणे वेद इत्यवधारणात् । नैतत्तुल्यम् । कुतः ।

प्रतिसंघातवर्तित्वाज्जातं प्रकरणेऽस्ति नः ।
वेदो महासमूहत्वात्प्रकृतौ न समाप्यते ॥
सर्वर्गादिसमूहेषु जातं व्यासङ्गि चेद्भवेत् ।
प्रकृतौ न समाप्येत ततस्तदपि वेदवत् ॥
मन्त्र776ब्राह्मणतर्काणां समूहे काठकादिके ।
वेदत्वं वर्तते नित्यमनेकक्रतुगामिनि ॥
समूहास्त्वेकवाक्यानां ये पादपदपर्वणाम् ।
ऋग्यजुःसामजातानि प्रत्येकं तेषु सन्ति नः ।
यथा वनादिसंघाताः प्राक्सामान्यसमन्विताः ।
805
तथर्गादिसमूहानां सामान्यं जातमुच्यते ॥
जातिरेव तु यज्जातं भाष्यकारेण वर्णितम् ।
व्याख्यातृभिश्च तन्नैवमृगादौ जात्यसंभवात् ॥
द्वि777वर्णे च पदे जातिर्गोशब्दत्वं न कल्पितम् ।
वाक्यत्ववत्कथं नु स्युर्ऋग्यजुः सामजातयः ॥

यथैव हि वाक्यत्वं नाम जातिर्भिन्नस्थानकरणप्रपन्नाभिव्यङ्ग्यक्रमवद्वर्णात्मकपदसमूहेऽन्त्यवर्णे वा विलक्षणावयवपदार्थसंबन्धप्रत्ययाकाङ्क्षाव्यवधानाद्भ्रमणत्वादिन्यायेन कल्पयितुं त778द्भूताधिकरणे नाध्यवसितम् । तथैवर्क्त्वयजुष्ट्वसामत्वानि क्रमवद्वर्णस्वराश्रयाणि न शक्यानि कल्पयितुम् ।

किं त्वेकार्थसमूहस्थमृग्यजुः सामसंज्ञितम् ।
जातं समूहसामान्यं न जातिर्नाम काचन ॥
यौगिकानां यथा जातेरन्यत्सामान्यमिष्यते ।
तथा समूहसामान्यं जातं जातिविलक्षणम् ॥

लोकेऽपि चैषैव जातिजातशब्दार्थप्रसिद्धिरित्येवमेव व्याख्येयम् ॥ १ ॥

  1. पूर्वोत्तरपदेति—उपक्रमोपसंहारस्थपदेत्यर्थः ।

  2. ( अ॰ २ पा॰ १ अ॰ १० सू॰ ३५ )
  3. तेनैवेति—अक्ताधिकरणेनैवेत्यर्थः ।

  4. अपि चेत्यादि भाष्यं व्याचष्टे—किं चेत्यादिना ।

  5. मन्त्रब्राह्मणेत्यादिश्लोकद्वयस्यायमर्थः— ‘विधिर्विधेयं तर्कश्च वेदः’ इति कातीयानां विधिशब्दोक्तस्य ब्राह्मणस्य विधेयशब्दोक्तानां मन्त्राणां तर्कपदोक्तस्य ‘यतो वा इमानि भूतानि जायन्ते’ इत्याद्युपनिषद्भागस्य च वेदत्वस्मृतेस्तत्समूहे काठकाद्याख्ये क्रतुविषये वेदत्वं व्यासज्य वतते । पादसमूहे एकवाक्यभूतमृग्जातं, पदसमूहे यजुर्जातमवच्छेदरूपभक्त्यवयवात्मकपर्वसमूहे सामजातं च पर्याप्य वर्तत इति ।

  6. विच्छिन्नयत्नव्यङ्ग्यैश्च नित्यैः सर्वगतैरपि व्यतिरिक्तपदारम्भो वर्णैर्नात्रोपपद्यते ॥ अनारब्धे च गोशब्दे गोशब्दत्वं कथं भवेत् । इत्यादिना श्लोकवार्तिकोक्तगोशब्दत्वन्यायं प्रकृतेऽतिदिशतिद्धिवर्णे चेत्यादिना ।

  7. ( अ॰ १ पा॰ १ अ॰ ७ ) इत्यत्रेति शेषः