889 यत्तु ‘अदन्तको हि’ इति हेतुनिदर्शनाद्देवताधर्मत्वमिति । तत्रोच्यते । हेतुवन्निगदार्थवादत्वादस्य यागधर्मप्रशंसार्थत्वमप्यविरुद्धमित्यकारणता ॥ ४५ ॥

नेमपिष्टादिषु प्राप्त्यभावाद्वचनं भविष्यति । विशिष्टविधानाच्च वाक्यभेदाभावः । अरुणैकहायनीवच्च परस्परनियमादसर्वविषयत्वम् । अविशिष्टविधिं चापेक्ष्य विशिष्टविधिर्दुर्बलो भवति न त्वत्रासावस्ति । तस्मादलिङ्गमित्येकदेवताविषयत्वमिति ॥ ४६ ॥

इति श्रीभट्टकुमारिलविरचिते मीमांसाभाष्यव्याख्याने तन्त्रवार्तिके तृतीयाध्यायस्य तृतीयः पादः समाप्तः ॥

निवीताधिकरणम्

स एव श्रुत्यादित्रितयस्य प्रकरणेन सह विरोधाविरोधविचारः । तत्र ‘निवीतं