न चैष विभागः परिक्रयार्थः । कुतः ।

परिक्रयो हि सर्वत्र स्वेन द्रव्येण कल्पते ।
देवतार्थे परित्यक्ते स्वामित्वं न च कस्याचित् ॥

समस्तस्य पुरोडाशस्य देवतोद्देशेन त्यक्तत्वादस्वामी यजमान इति ब्रह्मादिभिः समः । तत्र यथैव तेषां दातृत्वं न संभवति तथा यजमानस्यापि । तेन हि परिक्रीणानः पुनस्तद् द्रव्यं स्वी कुर्यात् । तत्र पौरस्त्यः संकल्पो विनश्येत् । तस्मात्तावन्न परिक्रयः । कथं खलु भक्षार्थमिति । तदुच्यते ।

योग्यता लिङ्गमित्युक्तं तच्चेष्टं विनियोजकम् ।
भक्षयोग्यः पुरोडाशः स्वरूपेण च दृश्यते ॥

ब्रह्मादिभिर्भागानामुपकुर्वद्भिर्न किंचिद् दृष्ट1159मित्युक्तं वदति, द्रव्यक्षपणस्यापेक्षितस्य दृष्टत्वात् । भागैस्तु ब्रह्मादीनामुपकारकैरित्यनेनापि सुतरां परिक्रय988 आपद्यते । न चावश्यं भक्षणेनैव तेषामुपक्रियते । गृहानयनादिनाऽप्युपकारोपपत्तेः । सर्वत्र च द्रव्यसंस्कारार्थतां भक्षस्य व1160क्ष्यति । व्रतादिभिर्निवृत्त्यनभिधानात् । पुरुषसंस्कारा हि व्रतैर्निवर्तेरन् । तत एवं वक्तव्यम् । सत्यं भागानां प्रतिपत्तिः, तथाऽपि तु प्रकृतकर्तृनियमस्य प्रयोजनापेक्षावेलायां दृष्टे सति अदृष्टदौर्बल्याद्दृष्ट एव कर्तृणां सामर्थ्यरूपः संस्कारः कल्प्यते । कर्तृसंस्कारश्च सर्वान्तरङ्गो भक्षणं नाम । गृहमपि च नीत्वा यावद्भक्षणं न क्रियते तावत्तदनुपयोगादनुपकारः । तेनावश्यं सूदूरमपि गत्वा भक्षणे पर्यवसितव्यम् । तत्र प्रथमातिक्रमे कारणाभावाद्योग्यतावशेन च व्यादेशद्वारप्रक्रान्तभक्षसमापनस्यावश्यं कर्तव्यत्वाद्ब्रह्यादीनामेव भक्षणेनोपकर्तव्यमिति गम्यते । शेषस्यापि च क्षपणापेक्षस्य भक्षणकृतमेव क्षपणं योग्यतयाऽवधार्यते ॥ ५० ॥

  1. ब्रह्मादिभिरित्यादिभाष्यस्य कर्तृसंस्कारमात्रार्थत्वोक्त्यर्थतया के षांचिद्व्याख्यानगमनिका ‘दृष्टामित्यनेन कर्तृसंस्कारमात्रार्थत्वं न वदति’ इत्यादिरूपा पङ्क्ति प्रलीनेति भाति ।

  2. ( अ॰ १२ पा॰ १ अ॰ १६ सु॰ ३॰ ) इत्यत्रेति शेषः