987 ‘एषा वै दर्शपूर्णमासयोर्दक्षिणा’ इति दक्षिणा ह्यृत्विजामुत्साहकारिणी परिक्रयस्य चैतद्रूपम् ॥ ४९ ॥

न चैष विभागः परिक्रयार्थः । कुतः ।

परिक्रयो हि सर्वत्र स्वेन द्रव्येण कल्पते ।
देवतार्थे परित्यक्ते स्वामित्वं न च कस्याचित् ॥

समस्तस्य पुरोडाशस्य देवतोद्देशेन त्यक्तत्वादस्वामी यजमान इति ब्रह्मादिभिः समः । तत्र यथैव तेषां दातृत्वं न संभवति तथा यजमानस्यापि । तेन हि परिक्रीणानः पुनस्तद् द्रव्यं स्वी कुर्यात् । तत्र पौरस्त्यः संकल्पो विनश्येत् । तस्मात्तावन्न परिक्रयः । कथं खलु भक्षार्थमिति । तदुच्यते ।

योग्यता लिङ्गमित्युक्तं तच्चेष्टं विनियोजकम् ।
भक्षयोग्यः पुरोडाशः स्वरूपेण च दृश्यते ॥

ब्रह्मादिभिर्भागानामुपकुर्वद्भिर्न किंचिद् दृष्ट1159मित्युक्तं वदति, द्रव्यक्षपणस्यापेक्षितस्य दृष्टत्वात् । भागैस्तु ब्रह्मादीनामुपकारकैरित्यनेनापि सुतरां परिक्रय

  1. ब्रह्मादिभिरित्यादिभाष्यस्य कर्तृसंस्कारमात्रार्थत्वोक्त्यर्थतया के षांचिद्व्याख्यानगमनिका ‘दृष्टामित्यनेन कर्तृसंस्कारमात्रार्थत्वं न वदति’ इत्यादिरूपा पङ्क्ति प्रलीनेति भाति ।