1073 देवेति केचित् । इदं तु वक्तव्यम् । सत्यमेतत्प्रयोजनं न तु सर्वधर्मेषु । यावन्तो हि सदोमानादिषु गुणकामास्ते सत्यप्यतिदेशे स एवौपदेशिक आश्रयोऽस्तीति न विकृत्यन्तरवद्विहन्यन्ते । विकृत्यन्तरेषु हि ज्योतिष्टोमस्याऽऽश्रयस्याभावाद्गुणकामा यथाश्रुता न भवन्तीति न सिध्यन्ति । संस्थासु तु यद्यप्यङ्गफलं नातिदिश्यते तथाऽपि स्वयमर्थित्वात्पुरुषस्य चिकीर्षमाणस्य गुणोपादित्सायां यथाश्रुताश्रयसंभवे नानुपपत्तिर्गुणकामानाम् । अतो यन्मात्रमुक्थ्यादिसंस्थानिमित्तमुक्थ्यग्रहणस्तोत्रशस्त्राद्यप्राकृतं तत्र यदितरग्रहस्तोत्रशस्त्रधर्मातिदेशेन किंचिद्गुणकामगतं प्राप्नोति तन्न भवतीति प्रयोजनम् । तथेदमपरं, यदि समानविधानं तत ‘अ1309व्यक्तासु तु सोमस्य’ इत्यनेन न्यायेन ये ज्योतिष्टोमविकारा विज्ञायन्ते तेषु सर्वाः संस्था विल्कपेन1310, सिद्धान्ते त्वग्निष्टोमसंस्थैवैका प्रवर्तते । यत्र चोक्थ्यादिविशेषचोदना तत्रैव केवलं तद्धर्मप्राप्तिरिति प्रयोजनं सिद्धम् ॥ ४७ ॥

इति गुणकामानामाश्रयेण सह सामानविध्याभावाधिकरणम् ॥ १६ ॥
इति श्रीभट्टकुमारिलविरचिते मीमांसाभाष्यव्याख्याने तन्त्रवार्तिके तृतींयाध्यायस्य षष्ठः पादः ।

बर्हिरादीनामङ्गप्रधानसाधारण्याधिकरणम्

समानासमानविधानाधिकारेणैवैतदपि प्रस्तूयते वाक्यप्रकरणविरोधाविरोधद्वारेण । दर्शपूर्णमासप्रकरणस्था वेदिः तद्धर्माश्च खननादयस्तथा बर्हिस्तद्धर्माश्च लवनादयः किमर्था इति । यद्यपि ‘वेद्यां हवीषि’ ‘बर्हिषि हवींषि’ ‘बर्हिर्लुनाति’ ‘वेदिं खनति’ इति चाविशेषितेन वाक्येनाङ्गप्रधानार्थत्वबुद्धिर्भवति । तथाऽपि स्वातन्त्र्ये

  1. (अ॰ ८ पा॰ १ अ॰ ९ सू॰ १६)
  2. प्रवर्तन्त इति शेषः । धर्मप्रदेशका भवन्तीति यावत् ।